________________
गा.-४०
बन्धशतक-A प्रकरणम्
चायोगिकेवलिनः प्रतिपातो नास्त्यतो वेदनीयबन्धस्य सादित्वासम्भवः, अनादिस्तु सम्भवति, सर्वसंसारिसत्त्वैरनादिकालान्निरन्तरं ।। | बध्यमानत्वेनादेरभावात्, ध्रुवोऽभव्यानां, कदाचिदपि व्यवच्छेदासम्भवाद्, अध्रुवो भव्यानामवश्यं तद्बन्धव्यवच्छेदसम्भवादिति । 'अणाइधुवसेसओ आउ'त्ति अनादिश्च ध्रुवश्चानादिध्रुवौ ताभ्यां शेषोऽन्यः साद्यध्रुवलक्षणोऽनादिध्रुवशेषो बन्धो भवति । क्वेत्याह-'आउ'त्ति प्राकृतत्वादायुषीत्यर्थः । एतदुक्तं भवति-आयुषः सादिरध्रुवश्च बन्धो भवति नान्यः । तस्य हि वेद्यमानायुषि त्रिभागशेषादौ नियत एव काले बन्धो भवति, नानवरतमित्यनादित्वाऽसम्भवोऽन्तर्मुहूर्ताच्च परमसौ बन्ध उपरमत इति ध्रुवत्वाऽसम्भव इति गाथार्थः ॥४०॥ भा० अह साइयाइगाहाभावत्थं संपवक्खामि ॥२११।।
वेयणीय(याउ )रहियछक्कम्मगस्स साईअणाइधुवअधुवो । चउविहबंधो तेसिं पंचण्डं मोहरहियाणं ॥२१२॥ उवसंतो नो बंधं करेइ सुहुमो उ मोहणीयस्स । दसिगारसगुणिगाऊ छक्कम्मअबंधगा होउं ॥२१३॥ तो आउक्खयठीईखएण वा परिवडित्तु जो पुणवि । ताणि कम्माइं बंधइ साईबंधो हवइ तस्स ॥२१४॥ दसिगारसगुणठाणं अपत्तपुव्वाण णाइबंधो त्ति । अभव्वजियाण धुवो अधुवो भव्वाण बंधते ॥२१५।। साईबंधो तइए न घडइ सो जेण बंधवुच्छेए । घई तबंधविगमो अजोगिणो हवइ नन्नत्थ ॥२१६॥ तस्स पडिवायअब्भावओ य नो घडइ साइबंधो त्ति । सेसा घडंति तब्भावणा य तिन्हं पि सुगमेव ॥२१७॥ आउंमि साइबंधो तस्स हि वेइज्जमाणआउस्स । निय एव तिभागाई काले बंधो उ नोऽणाई ॥२१८॥
१३२