SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ गा.-४० बन्धशतकप्रकरणम् । इह यः पूर्वं व्यवच्छिन्नः पश्चात्पुनरपि भवति सम्बन्धः स सादिः, यस्त्वनादिकालात्सन्तानभावेन प्रवृत्तो न कदा चिद्व्यवच्छिन्नः सोऽनादिः, यस्त्वग्रेऽपि न कदाचिद् व्यवच्छेदं प्राप्स्यति सोऽभव्यसम्बन्धी बन्धो ध्रुवः, यः पुनरायत्यां कदाचिद्व्यवच्छेदं प्राप्स्यति स भव्यसम्बन्धी बन्धोऽध्रुवो, अनया परिभाषया ज्ञानावरणदर्शनावरणमोहनीयनामगोत्रान्तरायलक्षणकर्मषट्कस्य साद्यनादिध्रुवाध्रुवचतुर्विकल्पोऽपि बन्धो लभ्यते । कथमिति चेत् ? उच्यते-एषु मोहनीयवर्जकर्मपञ्चकस्य तावन्मिथ्यादृष्टेरारभ्य सूक्ष्मसम्परायावसानाः सर्वेऽपि प्रतिसमयं बन्धकाः, उपशान्तकषाये पुनरमीषां कर्मणां बन्धो न भवति, मोहनीयस्य त्वनिवृत्तिबादरमेव यावद् बन्धो भवति, सूक्ष्मसम्पराये तु न भवत्येव, ततश्चेतौ सूक्ष्मसम्परायोपशान्तमोहावेतस्य कर्मषट्कस्य यथासम्भवमबन्धको भूत्वा, तत आयुःक्षयेण अद्धाक्षयेण वा प्रतिपातमासाद्य यदा पुनरप्येतानि कर्मणि बनीतस्तदैतबन्धः सादिर्भवति, व्यवच्छेदे सति पुनस्तत्प्रथमतया बध्यमानत्वेन सादित्वात् । सूक्ष्मसम्परायोपशान्तमोहावस्था त्वप्राप्तपूर्वा ये जीवास्तेषां प्रस्तुतकर्मषट्कबन्धोऽनादिः, अनादिकालान्निरन्तरं बध्यमानत्वेनाऽऽदेरभावादिति । ध्रुवोऽभव्यानां, प्रस्तुतकर्मबन्धस्य तेष्वायत्यामपि व्यवच्छेदानुपपत्तेः । अध्रुवो भव्यानां, प्रस्तुतकर्मबन्धव्यवच्छेदस्य तेष्ववश्यंभावादिति । 'तइए साइगसेसो'त्ति तृतीयं कर्म वेदनीयम्, तस्य सादिकाच्छेषः सादिकशेषो बन्धो भवति, सादिकं बन्धं वर्जयित्वा शेषोऽसावनादिध्रुवाध्रुवलक्षणस्त्रिविकल्पो बन्धो भवतीत्यर्थः । सादिहि बन्धो बन्धस्य व्यवच्छेदं कृत्वा पुनरपि प्रतिपतितस्य | तदेव बनतः सम्भवति । न चायं न्यायो वेदनीयेऽस्ति, तस्य हि बन्धाभावोऽयोगिकेवलिन्येव सम्भवति, नाधस्तात्, तस्य १३१ AAA
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy