SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ बन्धशतक प्रकरणम् अधुना गोत्रमुच्यते तत्र 'गुङ् शब्दे' इत्यस्माद्धातोर्भूयते संशब्धते प्रधानाधमादिरूपतया अनेन उच्चैर्नीचैः कुलोत्पत्त्यादिलक्षणेन पर्यायेणेति ष्ट्रन्प्रत्यये गोत्रम्, तादृशविपाकवेद्या कर्मप्रकृतिरपि गोत्रम् । तच्च द्विधा उत्तमजातिकुलबलरूपतपऐश्वर्यश्रुतलाभाख्यैरष्टभिः प्रकारैर्वेद्यत इत्युच्चैर्गोत्रम् । तद्विपर्ययान्नीचैर्गोत्रं, गुणहीनोऽप्युत्तमजात्यादिवशाज्जनैः पूज्यते, जात्यादिहीनस्तु गुणवानपि निन्द्यत इत्युक्तं गोत्रम् । अधुनाऽन्तरायम् । तत्र जीवं चार्थसाधनं चान्तराऽयते पततीत्यन्तरायं जीवस्य दानादिकमर्थं सिसाधयिषोर्विघ्नीभूयाऽन्तरा पततीत्यर्थः । तच्च पञ्चधा, दानस्यान्तरायं दानान्तरायमेवं लाभादिष्वपि वाच्यम् । इदमुक्तं भवति, सत्यपि दातव्ये वस्तुनि समागते च गुणवति पात्रे दानस्य चोत्तमं फलविशेषं विद्वा (द) नपि यदुदयाद्दातुं नोत्सहते, तद्दानान्तरायम् । प्रसिद्धादपि दातुर्गृहे विद्यमानमपि च देयमर्थजातं याञ्चाकुशलो गुणवानपि च याचको यदुदयान्न न लभते तल्लाभान्तरायम् । सकृद्भुज्यत इति भोगः आहारमाल्यविलेपनादिः, पुनः पुनर्भुज्यत इत्युपभोगः, शयनवसनवनिताभूषणादिस्तं भोगमुपभोगं वा विद्यमानमनुपहताङ्गोऽपि यदुदयाद्भोक्तुमुपभोक्तुं वा न शक्नोति तद्भोगान्तरायं उपभोगान्तरायं च वेदितव्यम् । वीर्यं पूर्वोक्तरूपं तस्यान्तरायं वीर्यान्तरायम्, | यदुदयादनुपहतपीनाङ्गोऽपि शक्तिविकलो भवति तद्वीर्यान्तरायमिति उक्तं पञ्चविधमन्तरायम् । तद्भणनाच्च कृता मूलोत्तरप्रकृतिवर्णनेति गाथाद्वयार्थः ॥ ३८-३९ ॥ भा० नाणाइगाहजुयलेण मूलपयडीण वन्नणया ॥२०४॥ गा.-३९ १२९
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy