________________
बन्धशतक
गा.-३९
प्रकरणम्
प्रघृष्यतया शरीराकृतिः परानाहन्त्यभिभवति तत्पराघातनाम । यदुदयादुच्छ्सनलब्धिरात्मनो भवति तदुच्छ्वासनाम ।
सर्वलब्धीनां क्षायोपशमिकत्वादौदयिकीलब्धिर्न सम्भवतीति चेद्, नैतदस्ति, वैक्रियाहारकादिलब्धीनामौदयिकीनामपि । सम्भवाद्वीर्यान्तरायक्षयोपशमोऽपि च तत्र निमित्तीभवतीति सत्यप्यौदयिकत्वे क्षायोपशमिकव्यपदेशोऽपि न विरुध्यते । अस्त्वेवं किन्तूच्छासनाम्नैवोच्छसनस्य सिद्धत्वादुच्छ्वासपर्याप्तिर्निर्विषयेति चेत् ? नैवं, सतीमप्युच्छासनामोदयजनितामुच्छ्सनलब्धिमात्मशक्तिविशेषरूपामुच्छासपर्याप्तिमन्तरेण व्यापारयितुं न शक्नुयाद्, यथाहि-शरीरनामोदयेन गृहीता अप्यौदारिकादिशरीरपुद्गलाः शक्तिविशेषरूपां शरीरपर्याप्ति विना शरीररूपतया परिणमयितुं न शक्यन्त इति शरीरनाम्नाः पृथग् इष्यते शरीरपर्याप्तिरेवमत्राप्युच्छासनाम्नः पृथग् उच्छासपर्याप्तिरेष्टव्या, तुल्ययुक्तित्वादिति । यदुदयाज्जन्तुशरीराण्यात्मनाऽनुष्णान्यप्युष्णप्रकाशलक्षणमातपं कुर्वन्ति तदातपनाम, तदुदयश्च रविबिम्बादौ पार्थिवशरीरेष्वेव, न वह्नयादिषु, सत्यपि हि तेषूष्मप्रकाशरूपत्वेऽसावातपो न भवति, किं तर्हि ? तत्र तेजोजन्तुशरीराण्येवोष्णस्पर्शोदयेनोष्णानि लोहितवर्णनामोदयात्तु प्रकाशयुक्तानि | भवन्तीति । यदुदयाज्जन्तुशरीराण्यनुष्णप्रकाशात्मकमुद्योतं कुर्वन्ति, यथा यतिदेवोत्तरवैक्रियचन्द्रग्रहनक्षत्रतारारत्नौषधिमणिप्रभृतयस्तदुद्योतनाम । यदुदयाज्जन्तुशरीरेष्वङ्गप्रत्यङ्गानां प्रतिनियतस्थानवृत्तिता भवति, तत्सूत्रधारकल्पं निर्माणनाम । तदभावे हि | तद्धृतककल्पैरङ्गोपाङ्गनामादिभिर्निर्वतितानामपि शिरउरउदरादीनां स्थानवृत्तेरनियमः स्यात् । यदुदयाज्जीवः सदैव मनुजासुरलोकपूज्यमुत्तमोत्तमं धर्मतीर्थस्य प्रवर्त्तयितृपदमवाप्नोति तत्तीर्थकरनामेत्युक्तं सप्रभेदं नामेति ।
१२८