________________
गा.-३९
बन्धशतकप्रकरणम् ।
ता एव यथास्वं शक्तयो विकला अपर्याप्तय उच्यन्ते, ता यस्योदयाद्भवन्ति, तदपर्याप्तनाम । शब्दव्युत्पत्तिस्तथैव । यस्योदयात् प्रत्येकं शरीरं भवत्येकस्य जीवस्यैकैकं शरीरमित्यर्थः, तत्प्रत्येकनाम । यस्योदयादनन्तानां जीवानां साधारणमेकं शरीरं भवति, तत्साधारणनाम । यदुदयाद् दन्तास्थिप्रभृतिस्थिरावयवानां निष्पत्तिर्भवति तत् स्थिरनाम । यदयेन भूजिह्वाद्यवयवा अस्थिरा भवन्ति, तदस्थिरनाम । यस्योदयान्नाभेरुपरि शिरःप्रभृतिशुभावयवा भवन्ति तच्छुभनाम । शिरःप्रभृतिभिर्हि स्पृष्टः परो हृष्यतीति तेषां शुभत्वम् । यस्योदयान्नाभेरधः पादादयोऽशुभावयवा भवन्ति तदशुभनाम । पादादिभिर्हि स्पृष्टः परो रुष्यतीति तेषामशुभत्वम् । यदुदयान्मधुरगम्भीरोदारस्वरो भवति तत् सुस्वरनाम । यदुदयात् स्वरभिन्नहीनदीनस्वरो भवति तद्दुस्वरनाम । यदुदयात् सर्वस्य प्रियः प्रह्लादकारी भवति तत् सुभगनाम । तद्विपरीतं तु दुर्भगनाम । यदुदयेन यत्किञ्चिदपि ब्रुवाण: सर्वस्योपादेयवचनो भवति तदादेयनाम । यदुदयाद्युक्तमपि ब्रुवाणः परिहार्यवचनो भवति तदनादेयनाम । सामान्यतस्तपःशौर्यत्यागादिसमुपार्जितयशसा कीर्तनं संशब्दनं श्लाघनं यशःकीतिरथवा सर्वदिग्गामिनी पराक्रमकृता वा सर्वजनोत्कीर्तनीयगुणता यश उच्यते । एकदिग्गामिनी दानपुण्यकृता वा कीर्तिर्यशश्च कीर्तिश्च यश:कीर्ति ते यदुदयाद्भवतः तद्यश:कार्तिनाम । तद्विपर्ययादयश:कीर्तिनाम । सर्वप्राणिनां शरीराणि यदुदयादात्मीयात्मीयापेक्षया नैकान्तगुरूणि नैकान्तलघूनि भवन्ति तदगुरुलघुनाम । एकान्तगुरुत्वे हि वोढुमशक्यानि स्युरेकान्तलघुत्वे तु वायुनाऽपि ह्रियमाणानि धारयितुं न पारयेरन्निति । स्वशरीरावयवैरेवं प्रतिजिह्वावृन्दलम्बकचौरदन्तादिभिः शरीरान्तर्वर्द्धमानैर्यदुदयादुपहन्यते पीड्यते तदुपघातनाम । यदुदयादुः
१२७