________________
बन्धशतक प्रकरणम्
अस्या व्याख्या-इह पर्याप्तिर्द्विधा, लब्धितः करणतश्च । तत्र योऽग्रे स्वप्रायोग्याः सर्वा अपि पर्याप्तीः समर्थयिष्यते तस्य योग्यतया लब्धमाश्रित्य भवान्तरालादावपि पर्याप्तिरस्ति । करणपर्याप्तिस्त्वर्थक्रियां प्रति साधकतमत्वात्करणान्याहारशरीरादीन्युच्यन्ते तानि यदा सर्वाण्यपि स्वप्रायोग्याण्यारभ्यन्ते तदा भवतीत्यतो लब्धिपर्याप्तिव्यवच्छेदेन करणपर्याप्तेर्लक्षणमाह'करणं पई 'इत्यादि, तुशब्दो लब्धिपर्याप्तेरस्याभेदख्यापनार्थो भिन्नक्रमश्चाकरणं तु वर्णितरूपं प्रति करणमाश्रित्य पुनः सा पर्याप्तिः । काऽसावित्याह- आहारशरीरेन्द्रियोच्छ्रासवचोमनसामभिनिर्वृत्तिर्निष्पत्तिर्भवति यतो दलिकादाहारशरीरादिप्रायोग्यवर्गणपुद्गलसमूहलक्षणात्तद्दलिकं करणमाश्रित्य पर्याप्तिरित्यर्थः ।
ननु पर्याप्तिः पुद्गलोपचयजः शक्तिविशेषो व्याख्यातः, तत्कथमत्राहारादिनिर्वर्त्तकं दलिकं पर्याप्तित्वेनोच्यते ? सत्यं | शक्तिरूपैव पर्याप्तिः, किन्तु तस्या आहारादिप्रायोग्यदलिकैरेवोपचयः क्रियते, अतः कारणे कार्योपचारात् तदपि दलिकं पर्याप्तित्वेनोक्तमित्यदोषः ।
तदेवमेता यथास्वमेकेन्द्रियविकलेन्द्रियसञ्ज्ञिपञ्चेन्द्रियाणां चतुष्पञ्चषट्सङ्ख्याः पर्याप्तयो यस्योदयाद्भवन्ति, तत्पर्याप्तकं नाम । येषां हि पर्याप्तयः सन्ति, ते मत्वर्थीयात्प्रत्यये पर्याप्तास्त एव पर्याप्तकास्तद्विपाकवेद्यं कर्मपि पर्याप्तकनाम ।
ननु शरीरपर्याप्त्यैव शरीरं भविष्यति, किं पूर्वोपवर्णितशरीरनाम्ना ? नैतदेवं, साध्यभेदात्, तथाहि शरीरनाम्ना जीवेन गृहीतानां पुद्गलानामौदारिकादिशरीरत्वेन परिणतिः साध्या, शरीरपर्याप्तस्त्वारब्धशरीरस्य परिसमाप्तिरिति ।
गा.-३९
१२६