________________
तूष्णाद्यभितापेन द्वीन्द्रियादीनामिव विशिष्टमिति । यस्योदयाज्जीवा बादराः स्थूरा भवन्ति तद् बादरनाम, न चेह चक्षुर्ग्राह्यत्वं प्रकरणम्बादरत्वमिष्टं, बादरस्याप्येकैकस्य पृथिव्यादिशरीरस्य चक्षुर्ग्राह्यत्वाभावात् तस्माज्जीवविपाकित्वेन जीवस्यैव कञ्चिद् बादरपरिणामं जनयत्येतद्, न पुद्गलेषु, किन्तु जीवविपाकी अपि तच्छरीरपुद्गलेष्वपि काञ्चिदप्यभिव्यक्ति दर्शयति, तेन बादराणां वहुतरसमुदितपृथिव्यादीनां चक्षुषा ग्रहणं भवति, न सूक्ष्माणाम् ।
बन्धशतक
जीवविपाकिकर्मणः शरीरे स्वशक्तिप्रकटनमयुक्तमिति चेद्, नैवं जीवविपाक्यपि क्रोधो भ्रूभङ्गत्रिवलीतरङ्गितालिकफलकक्षरत्प्रस्वेदजलकणनेत्राद्याताम्रत्वपरुषवचनवेपथुप्रभृतिविकारं कुपितनरशरीरेऽपि दर्शयति, विचित्रत्वात् कर्मशक्तेरिति । यस्योदयात् सूक्ष्माः पृथिव्यादयः पञ्च भवन्ति, तदपि जीवविपाकिसूक्ष्मनामकर्मेति । पर्याप्तिराहारादिपुद्गलदलिकग्रहणपरिणमनहेतुः पुद्गलोपचयजः शक्तिविशेषः । सा च साध्यभेदात् षोढा, तद्यथा- यथा बाह्याहारमादाय खलरसरूपतया परिणमयति सा शक्तिराहारपर्याप्तिः । यया तु सरसीभूतमाहारं रसासृग्मांसभेदास्थिमज्जशुक्ररूपसप्तधातुतया परिणमयति सा शरीरपर्याप्तिः । यया तु धातुभूतमाहारमिन्द्रियतया परिणमयति सेन्द्रियपर्याप्तिः । यया तूच्छ्वासप्रायोग्यवर्गणाद्रव्यमादायोच्छ्वासतया परिणमय्य मुञ्चति सोच्छ्वासपर्याप्तिः । यया तु भाषाप्रायोग्यं वर्गणाद्रव्यमादाय भाषारूपतया परिणमय्य मुञ्चति सा भाषापर्याप्तिः । यया तु मनः प्रायोग्यवर्गणाद्रव्यमादाय मनस्त्वेन परिणय्य मुञ्चति सा शक्तिर्मन: पर्याप्तिः । यदुक्तम्
आहारसरीरिंदियऊसासवओमणोभिनिव्वत्ति । होइ जओ दलियाउ करणं पई सा उ पज्जत्ती ॥१॥
गा.-३९
१२५