________________
गा.-३९
बन्धशतकप्रकरणम्
एवमेतेऽपि गन्धादयो यदुदयाद्भवन्ति, तान्यपि गन्धरसस्पर्शनामानि बोद्धव्यानीति । द्विसमयादिना विग्रहेण भवान्तरोत्पत्तिस्थानं गच्छतो जीवस्यानुश्रेणिनियता गमनपरिपाटीहानुपूर्वीत्युच्यते तद्विपाकवेद्या कर्मप्रकृतिरप्यानुपूर्वी । सा च चतुर्विधा, तत्र नरकगत्या सहचरिताऽनुपूर्वी नरकगत्यानुपूर्वी तत्समकालं च वेद्यमानत्वात् तत्सहचारित्वम् । एवं तिर्यङ्मनुष्यदेवानुपूर्योऽपि वाच्याः ।
गमनं गतिः, सा चेह पादादिविहरणात्मिका देशान्तरप्राप्तिहेतुर्दीन्द्रियादीनां प्रवृत्तिभिधीयते, नैकेन्द्रियाणां, पादाद्यभावात् । विहायसा नभसा गतिविहायोगतिः । इह च विहायसः सर्वगतत्वात् ततोऽन्यत्र गतिर्न सम्भवत्येवेति व्यवच्छेद्याभावात् विहायसा विशेषणमनुपपन्नम्, सत्यमेतत्, किन्तु यदि गतिरित्येवोच्यते, ततो नाम्नः प्रथमप्रकृतिरपि गतिरस्तीति पौनरुक्त्याशङ्का स्यादतस्तव्यवच्छेदार्थं विहायोग्रहणं कार्य, विहायसा गतिः प्रवृत्तिर्न तु भवगतिर्नरकगत्यादिकेति । सा च द्विधा, प्रशस्ता अप्रशस्ता च । तत्राद्या गजकलभकादम्बकवृषभादीनाम् इतरा तु खरोष्टटोलादीनां तद्विपाकवेद्या कर्मप्रकृतिरपि तन्नामिका द्विधैवेत्युक्ताः पिण्डप्रकृतयः ।
अधुना प्रत्येकप्रकृतयः । तत्र त्रस्यन्त्युष्णाद्यभितप्ताः तस्मादुद्विजन्ते, छायाधुपसर्पन्तीति त्रसास्तत्पर्यायविपाकवेद्यं कर्मापि त्रसनाम । तिष्ठन्तीत्येवंशीला उष्णाद्यभितापेऽपि तत्परिहारासमर्थाः 'कसिपिसिभासीशस्थाप्रमादा च'इति वरप्रत्यये स्थावराः | पृथिव्यादयः एकेन्द्रियास्तत्पर्यायविपाकवेद्यकर्मापि स्थावरनाम । तेजोवायूनां तु स्थावरनामोदयेऽपि चलनं स्वाभाविकमेव, न
१२४