SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ गा.-३९ बन्धशतकप्रकरणम् बन्धनात्यात्माऽन्योन्यसंसक्तान्करोति तदौदारिकशरीरबन्धननाम, दारुपाषाणादीनां जतुरालप्रभृतिश्लेषद्रव्यवत् । एवं वैक्रियादिचतुष्केऽपि वाच्यम् । अथवौदारिकौदारिकबन्धनादिभेदादिदं पञ्चदशधा पूर्वमुक्तं, तत्र पूर्वबद्धौदारिकपुद्गलैः सह गृह्यमाणौदारिकपुद्गलानां येन बन्धः क्रियते, तदौदारिकौदारिकबन्धननाम, एवमौदारिकस्य तैजसेन सह येन बन्धः क्रियते, तदौदारिकतैजसबन्धननामेत्यनया दिशा पञ्चदशापि बन्धनानि वाच्यानि । यदि त्विदं शरीरपुद्गलानामन्योन्यसंश्लेषकारि बन्धननाम न स्यात् ततस्तेषां शरीरपरिणत्या संहतानामप्यसम्बद्धत्वात्पवनाहतकुण्डस्थितसंहतास्तीमितशक्तूनामिवैकत्र स्थैर्यं न स्याद् इति । संहन्यमानशरीरपुद्गलानां कपाटादीनां लोहपट्टादिवदुपकारिसंहननमस्थिरचनाविशेषस्तत्पुनरौदारिकशरीर एव, नान्येषु, अस्थ्यादिरहितत्वात् तेषां, तच्च षोढा, वज्रर्षभनाराचादि, तत्र वज्रं कीलिका, ऋषभः परिवेष्टनपट्टो, नाराच उभयतो मर्कटबन्धः । ततश्च द्वयोरस्थ्नोरुभयतो मर्कटबन्धेन बद्धयोः पट्टाकृतिना तृतीयेनास्थ्ना परिवेष्टितयोरुपरि तदस्थित्रयभेदिकीलिकाकारं वज्रनामकमस्थि भवति यत्र तद्वज्रर्षभनाराचं प्रथमम्, ऋषभवर्ज वज्रनाराचं द्वितीयं, वज्रवर्जमृषभनाराचमित्यन्ये, वज्रर्षभवर्ज तु नाराचं तृतीयं, एकतोऽपि मर्कटबन्धं द्वितीयपार्वे कीलिकाविद्धमर्द्धनाराचं चतुर्थं, ऋषभनाराचवर्ज कीलिकाविद्धास्थिद्वयसञ्चितं कीलिकाख्यं पञ्चमम्, अस्थिद्वयपर्यन्तसंस्पर्शलक्षणां सेवां ऋतमागतं निपातनात् सेवार्तं षष्ठमितीदं षड्विधं संहननं | यदुदयाद्भवति शरीरे तदपि तत् सञ्जितं षड्विधं संहनननाम । १२१
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy