SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ गा.-३९ बन्धशतकप्रकरणम् संस्थानमवयवरचनात्मिका शरीराकृतिस्तदपि षोढा समचतुरस्रादि । तत्र समा शरीरलक्षणशास्त्रोक्तप्रमाणलक्षणाऽविसंवादिन्यश्चतस्रोऽस्रयो यस्य तत्समचतुरस्रं समासान्तोऽप्रत्ययः, अस्रयश्चेह चतुर्दिग्विभागोपलक्षिताः शरीरावयवास्ततश्च सर्वेऽप्यवयवा यथोक्तलक्षणप्रमाणाव्यभिचारिणो यस्य न न्यूनाधिकास्तत्समचतुरस्रम्, इदं च सर्वावयवेषु लक्षणादिभिस्तुल्यत्वात् तुल्यमुच्यते । न्यग्रोधवत्परिमण्डलं न्यग्रोधपरिमण्डलं, यथा न्यग्रोध उपरि सम्पूर्णावयवोऽधस्तनभागे तु न तथा तथैवेदमपि, नाभेरुपरि विस्तरबहुलं सम्पूर्णलक्षणादिभागमधस्तु न तथेति । सादीति आदिरिहोत्सेधाख्यो नाभेरधस्तनो देहभागो गृह्यते तेन आदिना यथोक्तलक्षणप्रमाणभाजा सह वर्त्तते यत्तत्सादि सर्वमेव हि शरीरमविशिष्टेन आदिना सह वर्त्तत इति सादित्वविशेषणाऽन्यथानुपपत्तेरधस्तनकायस्य विशिष्टता लभ्यते, सादि उत्सेधबहुलं परिपूर्णलक्षणादियुक्तोत्सेधमित्यर्थः, नाभेस्तूपरि लक्षणादिविसंवादी । वामनं मडहकोष्टं पाणिपादशिरोग्रीवं यथोक्तलक्षणादियुक्तं शेषं तूरउदरपृष्ठादिरूपं कोष्टं शरीरमध्ये मडहं लक्षणादरहितं यत्र तद्वामनमित्यर्थः, अधस्तनकायमडहं कुब्जं पाणिपादशिरोग्रीवलक्षणोऽधस्तनकायो, मडहो लक्षणादिविसंवादी यत्र शेषं तु मध्यकोष्टं यथोक्तलक्षणादियुक्तं तत्कुब्जं वामनविपरीतमित्यर्थः, अन्ये तु दर्शितलक्षणव्यत्ययेन प्रथमं कुब्जं ततो वामनं पठन्तीति । हुण्डं तु सर्वावयवेषु प्रायो लक्षणादिविनिर्मुक्तं भवति यस्यैकोऽप्यवयवः प्रायो न लक्षणादियुक्तो भवति तत्सर्वत्राऽसंस्थितं हुण्डमित्यर्थः, उक्तञ्च १२२
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy