________________
बन्धशतक
गा.-३९
प्रकरणम् ।
कार्मणशरीरादन्यदेव, इदं हि कार्मणशरीरस्य कारणभूता नामकर्मण उत्तरप्रकृतिः, कार्मणशरीरं पुनरेतदुदयसम्भवित्वादेतत्कार्यं, निःशेषकर्मणां प्ररोहभूमिराधारो वा संसार्यात्मनां च गत्यन्तरसङ्क्रमणे साधकतमं करणमित्यन्यदेव स्वकार्यात्कार्मणशरीरात्कारणभूतं प्रस्तुतं कार्मणशरीरनामकर्मेति । ____ अङ्गानि शिरउरउदरपृष्ठबाहूरुसज्ञितान्यष्टौ, तदवयवभूतानि त्वङ्गल्यादीन्युपाङ्गानि, शेषाणि तु तत्प्रत्यवयवभूतान्यङ्गलिपर्वरेखादीन्यङ्गोपाङ्गानि, अङ्गानि च उपाङ्गानि अङ्गोपाङ्गानि चेति द्वन्द्वः, एकपदशेषेऽङ्गोपाङ्गानीति भवति । तानि च यस्य कर्मण उदयादाद्येषु त्रिषु शरीरेषु भवन्ति तत् त्रिविधमङ्गोपाङ्गनाम । तत्र यदुदयादौदारिकशरीरत्वेन परिणतानां पुद्गलानामङ्गोपाङ्गविभागेन परिणतिर्भवति तदौदारिकशरीराङ्गोपाङ्गनाम । एवं वैक्रियाहारकाङ्गोपाङ्गनाम्नोरपि वाच्यम् । तैजसकार्मणयोस्तु जीवप्रदेशसंस्थानानुरोधित्वान्नास्त्यङ्गोपाङ्गसम्भव इति ।
एषां चाङ्गोपाङ्गादिशरीररचनाऽसंहतानां पुद्गलानां न सम्भवत्यतोऽन्योऽन्यसन्निधानलक्षणपुद्गलसंहतेः कारणं सङ्घातनाम तच्च शरीरपञ्चकभेदात् पञ्चधा । तत्र यस्य कर्मण उदयादौदारिकशरीरत्वपरिणतान् पुद्गलानात्मा सङ्घातयति पिण्डयत्यन्योन्यसन्निधानेन व्यवस्थापयति, तदौदारिकसङ्घातनामेत्येवं वैक्रियादिशरीरचतुष्टयेऽपि वाच्यमिति । एतेषां च पुद्गलानामौदारिकादिशरीरनाम्नः सामर्थ्याद् गृहीतानां सङ्घातनामसामर्थ्यादन्योऽन्यसन्निधानेन सङ्घातितानामन्योन्यसंश्लेषकारिबन्धननाम । एतदपि शरीरपञ्चकभेदात् पञ्चधा, तत्र पूर्वगृहीतैरौदारिकपुद्गलैः सह परस्परं च गृह्यमाणानौदारिकपुद्गलानुदितेन येन कर्मणा
१२०