________________
गा.-३९
बन्धशतक-A प्रकरणम्
इन्द्रियपर्याप्तिश्च यथासङ्ख्यं भावेन्द्रियजनने द्रव्येन्द्रियनिर्वर्त्तने च कृतार्था, कथमेकेन्द्रियादिव्यपदेशनिबन्धनपरिणतिलक्षणं जनयितुमलं, न ह्यन्यसाध्यं कार्यमन्यः साधयति, अतिप्रसङ्गात्, तस्मादेकेन्द्रियादीनां समानजातीयजीवान्तरेण सह समाना बाह्या काचित्परिणतिरेकेन्द्रियादिशब्दवाच्या अवश्यं जातिनामकर्मोदय एवाभ्युपगन्तव्या । तथाहि-बकुलादीनामनुमानादिसिद्धे | इन्द्रियपञ्चकक्षयोपशमे सत्यपि पञ्चेन्द्रियशब्दव्यपदेश्यपञ्चेन्द्रियजातिनामकर्मोदयजन्यविशिष्टबाह्यपरिणत्यभावान्न | पञ्चेन्द्रियव्यपदेशो भवति । यद्येवं गोऽश्वभुजगक्रमेलकादिशब्दव्यपदेश्यस्यापि पर्यायस्य कारणं किञ्चित्कर्माभ्युपगन्तव्यमिति
चेत् ? नैवं, जातिनामकर्मवैचित्र्यादेव तत्सिद्धिः, न चाऽत्रैकान्तेन युक्त्युपन्यास एवाग्रह: कार्यः, आगमोपपत्तिगम्यत्वात् तस्य, तदुक्तम्
आगमश्चोपपत्तिश्च सम्पूर्णदृष्टिकारणम् । अतीन्द्रियाणामर्थानां सद्भावप्रतिपत्तये ॥१॥ शीर्यत इति शरीरं प्रतिक्षणं प्रागवस्थातश्चयापचयाभ्यां विनश्यतीत्यर्थः, तच्च पञ्चविधैरौदारिकादिवर्गणापुद्गलैः क्रियत इति तद्भेदात् पञ्चधा, औदारिकशरीरादिपूर्वोपवर्णितस्वरूपं तद्विपाकवेद्यं कर्मापि तन्नामकं पञ्चधैव । तत्र यस्य कर्मण उदयादौदारिकवर्गणापुद्गलान् गृहीत्वा औदारिकशरीरत्वेन परिणमयति, तदौदारिकशरीरनाम । एवं वैक्रियाहारकतैजसकार्मणशरीरनामस्वपि स्वस्ववर्गणापुद्गलग्रहणपरिणामेन कारणत्वं वाच्यम्, यावद्यस्य कर्मण उदयात्कार्मणवर्गणापुद्गलान् | गृहीत्वा कार्मणशरीरत्वेन परिणमयति, तत्कार्मणशरीनाम । इदं च सत्यपि समानवर्गणापुद्गलमयत्वे स्वकार्यभूतात् ।
११९