________________
बन्धशतक
गा.-३९
प्रकरणम्
नरकविषये गतिनाम नरकगतिनाम नारकशब्दव्यपदेश्यपर्यायनिबन्धनं नरकगतिनामेति हृदयम् । एवं तिर्यङ्मनुष्यदेवगतिनामापि | वाच्यमिति ।
ननु सर्वेऽपि पर्याया जीवेन गम्यन्ते प्राप्यन्ते इति सर्वेषामपि गतित्वप्रसङ्ग इति नैवं यतो गच्छतीति गौरित्यादिवदविशेषेण । व्युत्पादिता अपि शब्दा रूढितो विशेषे वर्तन्त इत्यदोषः ।
जननं जातिरेकेन्द्रियादिशब्दव्यपदेश्येन पर्यायेन जीवानामुत्पत्तिस्तद्भावनिबन्धनभूतं नाम जातिनाम, तच्चैकद्वित्रिचतुःपञ्चेन्द्रियजातिनामभेदात् पञ्चधा, तत्रैकस्य स्पर्शनेन्द्रियज्ञानस्यावरणक्षयोपशममात्तदेकविज्ञानभाज एकेन्द्रियाः, एवं यस्य यावन्तीन्द्रियाणि तस्य तान्याश्रित्यानेनाभिलापेन तावन्नेयं, यावत् पञ्चानां स्पर्शनरसनघ्राणचक्षुःश्रोत्रज्ञानानामावरणक्षयोपशमात्पञ्चविधज्ञानभाजः पञ्चेन्द्रियाः, तेषामेकेन्द्रियाणां जातिनामैकेन्द्रियजातिनामेत्येवं यावत्पञ्चेन्द्रियजातिनाम ।
अत्राह-नन्वनेन जातिनाम्ना किं भावेन्द्रियमेकादिकं जन्यते ? उत द्रव्येन्द्रियम् ? आहोस्विदेकेन्द्रियोऽयम् इत्यादिव्यपदेश? इति त्रयी गतिः । यद्याद्यः पक्षः स न युक्तो, भावेन्द्रियस्य श्रोत्रादीन्द्रियज्ञानावरणक्षयोपशमजन्यत्वात्, "क्षायोपश| मिकानीन्द्रियाणि' 'इति वचनात् । अथ द्रव्येन्द्रियं जन्यते, तदप्यसारं, द्रव्येन्द्रियस्येन्द्रियपर्याप्तिनामोदयजन्यत्वात्, एकेन्द्रियादिव्यपदेशस्त्वेकादीन्द्रियज्ञानावरणक्षयोपशमपर्याप्तिनामभ्यामेव सेत्स्यति, किमन्तर्गडुना जातिनाम्नेति । अत्रोच्यते आद्यविकल्पद्वयं तावदनभ्युपगमादेव निरस्तं, यत्पुनरुक्तमेकेन्द्रियादिव्यपदेशस्त्वित्यादि, तदयुक्तं, यत इन्द्रियज्ञानावरणक्षयोपशम
११८