________________
बन्धशतक
गा.-३९
नपुंसकवेदः । यदुदये सनिमित्तमनिमित्तं वा हसति तद् हास्यमोहनीयम् । येन रमणीयेषु वस्तुषु रमते प्रमोदते तद्रतिमोहनीयम् । तद्विपरीतमरतिमोहनीयम् । येन प्रियविप्रयोगादिविह्वलमनाः शोचनाक्रन्दनपरिदेवनादि करोति तच्छोकमोहनीयम् । येन . सनिमित्तमनिमित्तं वा बिभेति तद्भयमोहनीयम् । येन शकृदादिबीभत्सपदार्थेभ्यो जुगुप्सते तत् जुगुप्सामोहनीयमित्युक्ता | नोकषायाः । तदभिधानाच्चोक्तं चारित्रमोहनीयं, मोहनीयं चाष्टाविंशतिविधमिति ।
इदानीमायुः प्रतिपाद्यते, आयाति भवाद्भवान्तरं सङ्क्रामतां जन्तूनां निश्चयेनोदयमागच्छतीत्यायुरिति नैरुक्तीशब्दव्युत्पत्तिः ।। यद्यपि च सर्वं कर्म उदयमायाति, तथाप्यस्त्यायुषो विशेषः, यतः शेषं कर्म बद्धं सत्किञ्चित्तस्मिन्नेव भवे उदयमायाति, किञ्चित्तु प्रदेशोदयभुक्तं जन्मान्तरेऽपि स्वविपाकत उदये नायात्येवेत्युभयथाऽपि व्यभिचारः । आयुषि त्वयं नास्ति, बद्धस्य तस्मिन्नेव भवेऽवेदनाज्जन्मान्तरेऽपि स्वविपाकतोऽवश्यं वेदनादिति विशिष्टस्यैवोदयागमनस्य विवक्षितत्वात्, तस्य चायुष्येव सद्भावात् तस्यैवेतन्नामेति । अथवा आयान्त्युपभोगाय तस्मिन्नुदिते सति तद्भवप्रायोग्यानि सर्वाण्यपि शेषकर्माणीत्यायुस्तच्च चतुर्द्धा, नारकस्य सतो वेद्यमानमायुष्कं नारकायुष्कं, तिरश्चां तिर्यगायुष्कं, मनुष्याणां मनुष्यायुष्कं, देवानां देवायुष्कमिति ।
इदानीं नाम प्रोच्यते नमयति परिणमयत्यात्मानं तैस्तैर्गत्यादिभिः पर्यायैरिति नाम । अथवा नारकादिरयं एकेन्द्रियादिर्वा असावित्यादिकं नाम यस्य कर्मण उदये जीवो लभते तत्कर्माप्युपचारतो नामेति । तत्र गच्छन्ति प्राप्नुवन्ति तथाविधकर्मीदयसचिवा जीवास्तामिति गतिः, नारकादिपर्यायपरिणतिरित्यर्थः, तद्विपाकवेद्या कर्मप्रकृतिरपि गतिः, सैव नाम गतिनाम । ततश्च
११७