________________
बन्धशतक प्रकरणम्
अतस्तेषामुदययौगपद्ये सत्यपि नायं व्यपदेश इत्यसाधारणमेतेषामेवैतन्नामेति । ते च चत्वारः, क्रोधोऽक्षान्तिपरिणतिरूपः, मानो गर्वो जात्याद्युद्भवममार्दवं, माया वञ्चनाद्यात्मिका जीवपरिणतिः, लोभोऽसन्तोषात्मको जीवपरिणाम इति एतद्विपाकाद्यावेद्या: कर्मप्रकृतयोऽपि तन्नामधेयाः, एते चत्वारोऽपि क्रोधादयो यथासङ्ख्यं क्षितिधररेखाशैलस्तम्भवंशीमूलकृमिरागसमाना अनन्तानुबन्धिन इत्यवसेयाः । त एव च क्रोधादयो यथाक्रमं पृथिवीरेखा अस्थिमेषशृङ्गकर्द्दमरागसमाना अप्रत्याख्यानावरणा उच्यन्ते, नञोऽल्पार्थत्वादल्पं प्रत्याख्यानमप्रत्याख्यानं देशविरतिरूपं तदप्यावृण्वन्तीत्यप्रत्याख्यानावरणाः । त एव च क्रमेण | रेणुरेखाकाष्ठगोमूत्रिकाखञ्जनरागसमानाः प्रत्याख्यानावरणा अभिधीयन्ते, प्रत्याख्यानं सर्वविरतिरूपमावृण्वन्तीति कृत्वा । त एव यथासङ्ख्यं जलरेखातिणसलतावंशावलेखहरिद्रारागसमानाः सञ्ज्वलना इत्युच्यन्ते, परीषहादिसम्पाते चारित्रमपीषज्ज्वलयन्तीति कृत्वा, संशब्दस्येषदर्थत्वादिति निर्दिष्टाः षोडशापि कषायाः ।
इदानीं नव नोकषाया उच्यन्ते तत्र नोशब्दः साहचर्यवचनः कषायैः सहचरा नोकषायास्तेषां हि केवलानां न प्राधान्यमस्ति, किन्तु कषायैरनन्तानुबन्ध्यादिभिः सहोदयं यान्ति तद्विपाकसदृशमेव विपाकमादर्शयन्तीत्यर्थः, बुधग्रहवदन्यसंसर्गमनुवर्त्तन्त इति हृदयम् । एषु च वेदत्रये यदुदये स्त्रियाः पित्तोदये मधुराभिलाषवत् पुंस्यभिलाषः समुत्पद्यते, स फुंफुमाग्निसमानः स्त्रीवेदः । यदुदये पुंसः श्लेष्मोदयादम्लाभिलाषवत् स्त्रियामभिलाषो भवति, स तृणाग्निज्वालासमानः पुंवेदः । यदुदये पण्डकस्य पित्तश्लेष्मोदये मज्जिकाभिलाषवदुभयोरपि स्त्रीपुंसयोरभिलाषः समुदेति स महानगरदाहदावाग्निसमानो
गा.-३९
११६