________________
प्रस्तावना
बन्धशतकप्रकरणम्
इत्येताभ्यां पद्याभ्यां स्पष्टतयाऽवसीयते यदुतैभिः पूज्यैविक्रमार्कीयद्वादशशताब्द्यामेव पवित्रितेयं भारतभूमिः ।
सिद्धान्ततत्त्वनिरूपणप्रवणाः सहृदयहृदयहारिणः के के ग्रन्था आराध्यपादैरेभिः संहब्धा ? इति जिज्ञासायामपि प्रदर्शयितुं ग्रन्थनिर्माणप्रयोजनमेभिरेव सूरिपुरन्दरैः समुल्लिखितः सविस्तरो गद्यमयो लेख एव समालोकनीयः, तस्मिन् ग्रन्थनामप्रदर्शनपरो य उल्लेखः स
चायम्
ततो मया तस्य परमपुरुषस्योपदेशं श्रुत्वा विरचय्य झटिति निवेशितमावश्यकटिप्पनिकाभिधानं सद्भावनामञ्जूषायां नूतनफलकम्, ततोऽपरमपि शतकविवरणनामकम्, अन्यदप्यनुयोगद्वारवृत्तिसंज्ञितम्, ततोऽपरमप्युपदेशमालासूत्राभिधानम्, अपरंतु तवृत्तिनामकम्, अन्यच्च जीवसमासविवरणनामधेयम्, अन्यत्तु भवभावनासूत्रसंज्ञितम्, अपरं तु तद्विवरणनामकम्, अन्यच्च झटिति विरचय्य तस्याः सद्भावनामञ्जूषाया अङ्गभूतं निवेशितं नन्दिटिप्पनकनामधेयं नूतनदृढफलकम् । एतैश्च नूतनफलकैनिवेशितैः वज्रमयीव संजाताऽसौ मञ्जूषा तेषां पापानामगम्या । ततस्तैरतीवच्छलघातितया संचूर्णयितुमारब्धं तद्द्वारकपाटसंपुटम् । ततो मया ससंभ्रमेण निपुणं तत्प्रतिविधानोपायं चिन्तयित्वा विरचयितुमारब्धं तद्वारपिधानहेतोविशेषावश्यकविवरणाभिधानं वज्रमयमिव नूतनकपाटसंपुटम् ।"
एतत्संशोधनकियायां च संशोधकपूज्यैः कृतेऽपि विशेषप्रयत्ने वृत्तिसत्कं, पुस्तकद्वयं भाष्यसत्कं त्वेकमेव समासादितम् । एकं शान्ततपोमूर्तिश्रीमद्विजयसिद्धिसूरीश्वरसत्कमशुद्धं, द्वितीयं च मुनिश्रीचतुरविजयद्वारा पट्टनाख्यपत्तनश्रीसंघसत्कं शुद्धप्रायं च । भाष्यसत्कं तु
AAA