________________
प्रस्तावना
बन्धशतकप्रकरणम्
यद्वक्त्राम्बुधिनिर्यदुज्ज्वलवच:पीयूषपानोद्यतै-र्गीर्वाणैरपि दुग्धसिन्धुमथने तृप्तिर्न लेभे जनैः ॥६॥ कृत्वा येन तपः सदुष्करतरं विश्वं प्रबोध्य प्रभो-स्तीर्थं सर्वविदः प्रभावितमिदं तैस्तैः स्वकीयैर्गुणैः । शुक्लीकुर्वदशेषविश्वकुहरं, भव्यैर्निबद्धस्पृहं, यस्याशास्वनिवारितं विचरति श्वेतांशुगौरं यशः ॥७॥ यमुनाप्रवाहविमलश्रीमन्मुनिचन्द्रसूरिसम्पर्कात् । अमरसरितेव सकलं, पवित्रितं येन भुवनतलम् ॥८॥ विस्फूजत्कलिकालदुस्तरतमःसन्तानलुप्तस्थितिः, सूर्येणेव विवेकभूधरशिरस्यासाद्य येनोदयम् । सम्यग्ज्ञानकरैश्चिरन्तनमुनिक्षुण्णः समुद्द्योतितो, मार्गः सोऽभयदेवसूरिरभवत्तेभ्यः प्रसिद्धो भुवि ॥९॥ तच्छिष्यलवप्रायै-रगीतार्थैरपि शिष्टजनतुष्ट्यै । श्रीहेमचन्द्रसूरिभि-रियमनुरचिता शतकवृत्तिः ॥१०॥
एभिश्च पारमेश्वरप्रवचनपानपीवरैः प्रवचनतत्त्वनिरूपणप्रवणैः पूज्यप्रवरैः कस्मिन् काले पावितेयं भारतभूमिः ? इति जिज्ञासायां जातायाम् एभिरेव विरचितस्य विशेषावश्यकविवरणस्य प्रशस्तौ स्थापिताभ्यां
तच्छिष्यलवप्रायैरगीतार्थैरपि शिष्टजनतुष्ट्यै । श्रीहेमचन्द्रसूरिभिरियमनुरचिता प्रकृतवृत्तिः ॥१०॥ शरदां च पञ्चसप्तत्यधिकैकादशशतेष्वतीतेषु । कार्तिकसितपञ्चम्यां श्रीमज्जयसिंहनृपराज्ये ॥११॥