________________
प्रस्तावना
बन्धशतकप्रकरणम्
इत्यादिकं ज्ञातुं समीहा चेत् ? अवलोकनीयं तस्यैवान्तिममार्यापञ्चकम् । तच्चेदम्
सिरिवद्धमाणगणहर-सीसेहि विहारुगेहि सुहबोहं । एयं सिरिचक्केसरसूरीहिं सयगगुरुभासं ॥१९॥ गुणहरगुणधरनामगनिययविणेयस्स वयणओ रड्यं । सुयणे सुणंतु जाणंतु बुहजणा तह विसोहिंतु ॥२०॥ सत्तनवरुद्दम्मि य वच्छरम्मि विक्कमनिवाउ वट्टते । कत्तियचउमासदिणे गोल्लसणे विसयविसेनयरे ॥२१॥ दहिवमी सिरिसिद्धरायभूवइपसायगेहस्स । अन्नलदेवनिवइणो सुहरज्जे वट्टमाणम्मि ॥२२॥ निष्फत्तिमुवगयमिणं ता नंदउ जाव सिद्धिसुहमूलो । तियलोक्कपायडजसो जिणवरधम्मो जए जयइ ॥२३॥ श्रीउदयप्रभसूरिसन्हन्ब्धं षड्विंशतिश्लोकन्यूनसहस्रपरिमितं टिप्पनकमपि वर्त्तत इति प्राच्यकर्मग्रन्थप्रस्तावनायामुक्तम् ।
अथाऽस्य व्याख्याकर्त्तारोऽनुयोगद्वारविशेषावश्यकभाष्यादिवृत्तिकरणतो विख्यातकीर्तयोऽप्यविख्यातेतिवृत्ताः श्रीमन्तः श्रीहर्षपुरीय अपरनाम मलधारगच्छीयश्रीमदभयदेवसूरिशिष्याः श्रीमद्धेमचंद्रसूरय इति त्वेतत्प्रस्तुतप्रकरणवृत्तिप्रशस्तिप्रान्तवर्तिनाऽनेन काव्यपञ्चकेनावगम्यते
आज्ञा यस्य नरेश्वरैरपि शिरस्यारोप्यते सादरं, यं दृष्ट्वापि मुदं व्रजन्ति परमं प्रायोऽतिदुष्टा अपि ।