________________
बन्धशतक प्रकरणम्
त्कर्मप्रकृत्याख्यात्प्राभृतात् समुद्धरितत्वेन दृष्टिवादनिबन्धनः सकलकार्मिकग्रन्थचूडामणीभूतः कर्मप्रकृतिनामा प्राचीनप्रबन्धोऽप्येभिरेव पूर्वधरपूज्यैः प्रणीतो वर्त्तते, तस्मिन् बन्धनसङ्क्रमणोद्वर्त्तनोदीरणोपशमनानिधत्तिनिकाचनात्मकं करणाष्टकमुदयः सत्ता चेति प्रकरणदशकं विद्यते, तत्र च यद्बन्धननामकं करणं तत् तदैव सुज्ञातं भवति यदेदं प्रकरणं परिशीलितं स्यादिति त एव पूज्यपादा बन्धनकरणोपसंहारे प्ररूपयन्ति, तथा च तत्पाठ:
“एवं बंधकरणे परूविए सह हि बंधसयगेण । बंधविहाणाभिगमो सुहमभिगंतुं लहुं होई ॥१०२॥"
अनेनास्य प्रकरणरत्नस्यातीवोपयोगित्वं परमोपकारित्वं च परिस्फुटतयाऽवसीयते । अतीवोपयोगितया परमोपकारितया च प्रतिष्ठितस्यास्य प्रकरणरत्नस्योपरि चेत् न स्यात् ? माने बहुवचनं 'तच्चूर्णीनामतिगम्भीरत्वात्' इति वचनाद् (?) अनेकाः चूर्णयः कृता आसीरन्, परं ताः केनापि कारणेन व्यवच्छिन्नाः, केवलमेका लघुचूर्णिः दृश्यते सा च पूर्वसूरिप्रणीता आराध्यपाद-अनुयोगाचार्यगुरुगुरुवर्य श्रीमद्दानविजय-गणिवरसदुपदेशसंस्थापित - राजनगरस्थ - श्रीवीरसमाजेन स्वकीयप्रथमग्रन्थरत्नतया पूर्वमेव प्रकाशिता । तस्यां द्वादशतमपत्रस्य प्रथमपृष्ठेऽष्टम- पङ्कौ "वेडव्विय आहारग दुगसहिया" इति मुद्रितं, परं तदशुद्धं जातं, तत्स्थाने मूलपाठ एव सम्यग् । एवमवक्तव्यबन्धाधिकारे एकोनचत्वारिंशत्तम पत्रद्वितीयपृष्ठे पञ्चदशतमपङ्क्तौ 'चारित' इत्यपि निष्प्रयोजनमेव जातम् । तथाऽत्र श्रीमद्गुणरत्नसूरिरचिता अवचूरिरपि विद्यते, कर्तृनामरहिते चतुर्विंशतिगाथाप्रमिते द्वे भाष्ये अपि वर्तते । तयोरेकं भाष्यं गुरुवर्यैः कृत्वा नूतनं टिप्पनकं निवेशितमस्य ग्रन्थस्य प्रान्तभागे । एकं तु बृहद्भाष्यं श्रीचक्रेश्वरसूरिविरचितं तच्चास्मिन्नेव मुद्रितम् । अत्र मुद्रितस्य बृहद्भाष्यस्य प्रणेतारः श्रीमन्तश्चक्रेश्वरसूरयः केषां कृपापरीतचेतसां गुरुवर्य्याणां शिष्यभावं प्रतिपन्नाः ? कस्मिश्च समये किमर्थं चैतद्भाष्यं विरचितवन्तः
प्रस्तावना
१०