________________
प्रस्तावना
बन्धशतकप्रकरणम्
प्रवर्तकश्रीमत्कान्तिविजयसत्कमशुद्धतरतमं च । अत एव वृत्तभङ्गयुतं भाष्यं मदीयगुरुवर्यैः प्रायेण टीकानुसारेणैव संशोधितं तत्र च संभव्येव दोषसद्भावोऽतः संशोधनीयमेव तत् शेमुषीशालिशेखरैरिति समीहन्ते ते पूज्यपादाः ।
अथाऽस्य प्रतिकृतिसंशोधनं तु कर्मप्रकृत्यादिशास्त्ररत्नरत्नाकरकल्पैर्मदीयगुरुवरैः सच्चारित्रपवित्रगात्रश्रीमद्विजयसिद्धिसूरीश्वराणां साहाय्येनैवाकारि । प्रुफाणां संशोधनेऽपि न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरीश्वरशिष्यरत्नमहामहोपाध्यायश्रीमद्वीरविजयविनेयावतंससिद्धान्तरत्नरत्नाकरकल्प-मदीयगुरुगुरुवर्यअनुयोगाचार्य-श्रीमद्-दानविजयगणिनः, सर्वज्ञसिद्धान्तसन्निहितहृदयश्रीमद्विजयसिद्धिसूरीश्वरशिष्यरत्नस्वकीयदेशनाशक्त्याऽवजितसकलभव्यनिवह-पंन्यासपदपरिमण्डित-श्रीमन्मेघविजयगणयः, मुख्यतया पठनपाठनरसिकमदीयगुरवश्चायासमाभेजुः ।
एभिः पण्डितप्रकाण्डैः पूर्वोक्तपुस्तकत्रितयाधारण महता प्रयासेन च संशोधितेऽप्यस्मिन् प्रकरणरत्ने छद्मस्थानां स्वाभाविकेन प्रमाददोषेणाऽक्षरयोजकदोषेण दृष्टिदोषेण वा कथंचिदत्राशुद्धं कृतं जातं वा भवेत्तत् संशोधनीयं विपश्चिदपश्चिमैः, संसूचनीयं च कृपया यदशुद्धं विज्ञायते तद् येन द्वितीयसंस्करणे संस्कियेतेति प्रार्थयतेमहींदपुरम्
आराध्यपाद-पंन्यासश्रीमद्दानविजयगणिशिष्यरत्नमुनिसत्तमश्रीसंवत् १९८० आश्विन-शुक्लतृतीया
प्रेमविजयगणिवरपादारविन्दमधुव्रतो
मुनिरामविजयः