________________
बन्धशतक
गा.-३९
प्रकरणम्
अपरिशेष-सम्पूर्ण सम्पूर्णद्रव्यादिज्ञेयग्राहित्वात्, केवलं च तज्ज्ञानं च केवलज्ञानं तस्यावरणं केवलज्ञानावरणम् । अत्र चाद्यानि चत्वार्यावरणानि देशघातीनि केवलज्ञानावरणोद्धरितज्ञानदेशघातित्वात्, केवलज्ञानावरणं तु सर्वघाति वक्ष्यमाणयुक्त्या स्वाऽऽवार्यज्ञानस्य सर्वघातित्वात्, एवमेतानि पञ्चावरणान्युत्तरप्रकृतयस्तन्निष्पन्नं तु सामान्येन ज्ञानावरणं मूलप्रकृतिर्यथाङ्गलीपञ्चकनिष्पन्नो मुष्टिः, मूलत्वक्पत्रीशाखादिसमुदायनिष्पन्नो वा वृक्षः, घृतगुडकणिक्कादिनिष्पन्नो वा मोदक इत्यादि, एवमुत्तरत्रापि भावनीयम् । उक्तं पञ्चविधं ज्ञानावरणमिति । ___ इदानी दर्शनावरणमुच्यते, तत्र दृश्यतेऽनेनेति दर्शनम् । दृष्टिर्वा दर्शनं सामान्यविशेषात्मके वस्तुनि सामान्यग्रहणात्मको बोध इत्यर्थः, तस्यावरणस्वभावं कर्म दर्शनावरणं मूलप्रकृतिस्तस्य प्रथमभेदो निद्रा, तत्र द्रा कुत्सायां गतौ, नियतं द्राति कुत्सितत्वमविस्पष्टत्वं गच्छति चैतन्यमनयेति निद्रा, नखच्छोटिकादिमात्रेणैव सुखावबोधा स्वापावस्थेत्यर्थः, कारणे कार्योपचारात् तद्विपाकवेद्या कर्मप्रकृतिरिपि निद्रेत्युच्यते । तथा निद्रातिशायिनी निद्रा निद्रानिद्रेति मध्यपदलोपी समासो दुःखप्रबोधा स्वापावस्थेत्यर्थः, तस्यां हि चैतन्यस्यात्यन्तमस्फुटतरीभूतत्वाद्बहुभिर्घोलनाप्रकारैः प्रबोधो भवति, अतः सुखप्रतिबोधनिद्रापेक्षया तस्या अतिशायित्वम्, तद्विपाकवेद्या कर्मप्रकृतिरपि तथोच्यते । उपविष्टः ऊर्ध्वस्थितो वा प्रचलति विघूर्णयत्यस्यां स्वापावस्थायामिति । | प्रचला, तद्विपाकवेद्या कर्मप्रकृतिरपि तथोच्यते । प्रचलातिशायिनी प्रचला प्रचलाप्रचला, सा हि चङ्क्रमणादिकुर्वतः स्वप्तुर्भवतीति । स्थानस्थितस्वस्तृप्रभवां प्रचलामपेक्ष्यास्या अतिशायिनीत्वं, तद्विपाकवेद्या कर्मप्रकृतिरपि प्रचलाप्रचला । स्त्याना