________________
गा.-३९
बन्धशतकप्रकरणम्
AA
बहुत्वेन सङ्घातमापन्ना गृद्धिरभिकाङ्क्षा जाग्रदवस्थाध्यवसितार्थसाधनविषया यस्यां स्वापावस्थायां सा स्त्यानगृद्धिः, तस्यां जाग्रदवस्थाव्यवसितमर्थंमुत्थाय साधयति । स्त्याना वा पिण्डीभूता ऋद्धिरात्मशक्तिरूपा अस्यामिति स्त्यानद्धिरित्यप्युच्यते, तद्भावे हि प्रथमसंहननस्य केशवार्द्धबलसदृशी शक्तिर्भवति । श्रूयते ह्येतदागमे, क्वचित् प्रदेशे द्विरदेन दिवा खलीकृतः क्षुल्लक: स्त्यानद्धयुदये वर्तमानस्तस्मिन्नेव द्विरदे बद्धाभिनिवेशो रजन्यामुत्थाय तद्दन्तयुगलमुत्पाट्य स्वोपाश्रयद्वारे क्षिप्त्वा पुनः सुप्तवानित्यादि । अथवा स्त्याना जडीभूता चैतन्यद्धिरस्यामपीति स्त्यानद्धिरिति । तादृशविपाकवेद्या कर्मप्रकृतिरपि स्त्यानगृद्धिः स्त्यानद्धिर्वा । तदेतन्निद्रापञ्चकं दर्शनावरणक्षयोपशमलब्धात्मलाभानां दर्शनलब्धीनामावारकमुक्तम् । अधुना यद्दर्शनलब्धीनां मूलत एव लाभमावृणोति तदिदं दर्शनावरणचतुष्कमुच्यते । चक्षुषा वस्तुसामान्यांशग्रहणात्मकं दर्शनं चक्षुर्दर्शनं, तस्यावरणं चक्षुर्दर्शनावरणम्, अचक्षुषा चक्षुर्वर्जेन्द्रियचतुष्टयेन मनसा च यद्दर्शनं यथोक्तरूपं तदचक्षुर्दर्शनं तस्यावरणमचक्षुर्दर्शनावरणम्, अवधिना रूपिद्रव्यमर्यादया अवधिरेव वा करणनिरपेक्षबोधरूपो दर्शनं सामान्यार्थग्रहणमवधिदर्शनं, तस्यावरणमवधिदर्शनावरणम्, केवलेन सम्पूर्णवस्तुतत्त्वग्राहकबोधविशेषरूपेण यदर्शनं वस्तुसामान्यांशग्रहणं तत्केवलदर्शनं, केवलमेव वा दर्शनं केवलदर्शनं, तस्यावरणं केवलदर्शनावरणम् । इह च सर्वत्र दर्शनं सामान्यार्थग्रहणमुच्यते, यत उक्तम्
'जं सामन्नग्गहणं भावाणं नेव कट्टमागारं । अविसेसिऊण अत्थे दंसणमिति वुच्चई समए ॥१॥ १. यत् सामान्यग्रहणं भावानां नैव कृत्वाकारम् । अविशेषित्वार्थाद् दर्शनमित्युच्यते समये ॥१॥
११४