________________
गा.-३९
बन्धशतकप्रकरणम्
AA
सम्बंधित्वेन पश्यति । जीतकल्पभाष्येऽपि चोक्तम्
'कालं उज्जमई जहन्न उक्कोसए वि पलियस्स । भागमसंखेज्जइमं अतीयएस्सेव कालदुगे ॥१॥
जाणइ पासइ ते ऊ मणिज्जमाणे उ सण्णिजीवाणं । ते चेव य विउलमई वितिमिरसुद्धे उ जाणइ य ॥२॥ ___'ते उ त्ति' ताननन्तप्रादेशिकानन्तर्मन:परिणतस्कन्धानिति तत्रानुवर्तमानं सम्बध्यत इत्यलं विस्तरेण, तत्त्वं तु केवलिनो | विदन्तीति । द्रव्यतोऽपि च तान्येव । भावतस्तु तत्पर्यायश्चिन्तनानुगुणपरिणतिरूपा ऋजुमतेविषयः, चिन्तनीयं तु बाह्यमधू मूर्तममूर्तं वा त्रिकालगोचरमप्यनुमानादेव जानाति, न साक्षात्, यतः-"एतत्परिणतान्येतान्येतानि मनोद्रव्याणि तत एतदन्यानुपपत्तेरयमनेनार्थश्चिन्तितः" इति लेखाक्षरदर्शनात्, तदुक्तार्थमिव प्रत्यक्षीकृतमनोद्रव्येभ्यश्चिन्त्यमर्थमनुमिमीते । स चैवं बाह्याभ्यन्तररूपो द्विविधोऽपि विषयः स्फुटतरो बहुतरश्च विपुलमतेविषयत्वेनावसेयः । तदेवमेतयोर्द्वयोरपि मनःपर्यायज्ञानभेदयोर्यदावरणस्वभावं कर्म तन्मनःपयोयज्ञानावरणम् ।
तथा केवलमेकमसहायमसाधारणमनन्तमपरिशेषं वोच्यते । तत्रैकं तद्भावे शेषछाद्मस्थिकज्ञानदर्शनाभावात्, असहायं त्विन्द्रियमनःकृतसाहाय्यनिरपेक्षत्वेनार्थपरिच्छेदात्, असाधारणं त्वनन्यसदृशत्वात्, अनन्तं त्वपर्यवसितकालावस्थायित्वात्,
१. कालत ऋजुमतिर्जघन्योत्कृष्टेऽपि पल्योपमस्य । भागमसङ्ख्येयमतीतैष्ये वा कालद्विके ॥१॥ जानाति पश्यति तान् तु मन्यमानान्तु सज्ञिजीवानाम् । तानेव विपुलमतिः वितिमिरशुद्धान्तु जानाति च ॥२॥
११२