SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ बन्धशतक प्रकरणम् | विशेषणसमासः । तच्च द्विधा, ऋजुमतिविपुलमतिभेदादिति । मननं मतिर्विषयपरिच्छित्तिरित्यर्थः । ऋज्वी अल्पतरविशेषविषयतया मुग्धा मतिर्यस्य तद् ऋजुमतिः, विपुला बहुतरविशेषतया पट्वी मतिर्यस्य स तद् विपुलमतिः । तत्र ऋजुमतेरर्द्धतृतीयाङ्गलहीनो मनुष्यलोकः क्षेत्रतो विषयः, विपुलमतेस्तु स एव सम्पूर्णो निर्मलतरश्च । कालतस्त्वेतावति क्षेत्रे भूतभाविनीः पल्योपमासङ्ख्येयभागयोरतीतानागतानि सञ्ज्ञिमनोरूपाणि मूर्त्तद्रव्याणीति कर्मस्तवटीका । अन्ये तु व्याचक्षते वर्त्तमानकाले मन्यमानद्रव्याणां भूतभाविनोः पल्योपमासङ्ख्येयभागयोर्येऽतीतानागतपर्यायास्तान् पश्यति, तच्चायुक्तमिव लक्ष्यते, यतो वर्त्तमानमनोद्रव्याणामतीतानागतान् पर्यायान् पश्यन्नसौ किञ्चिन्तानुकूलान् पश्यति अन्यान्वा ?, तत्राद्यः पक्षो न युक्तो, यतो भूतभाविपल्योपमासङ्ख्येयभागमध्ये यान्यसञ्जातमन: परिणामानि द्रव्याणि तत्क्षण एव च जातमनोवर्गणापरिणामानि तानि | गृहीत्वा यदा कश्चिच्चिन्तयति, तदा तत्सम्बन्ध्यतीतानागतपर्यायान् मनः पर्यायज्ञानी किं परिच्छिनत्तु ? तावति काले तद्द्रव्याणां चिन्तानुकूलपर्यायाणामेवाभावात् । किञ्चैवं व्याख्यायमाने तेनैव विवक्षितवर्त्तमानकालचिन्तकेनान्यैर्वा चिन्तकैर्यदतीतदिवसादिषु चिन्तितं तन्मन: पर्यायज्ञानिनोऽविषयः प्राप्नोति, तच्चिन्ताद्रव्याणां वर्त्तमानचिन्ताद्रव्येभ्यः प्रायो विभिन्नत्वान्न चैतदिच्छन्ति वृद्धाः । द्वितीयपक्षस्तु सर्वथोपेक्षणीय एव, चिन्ताननुकूलपर्यायाणां मनः पर्यायज्ञानविषयत्वेनानिष्टत्वात्तस्माद्भूतभाविनोः पल्योपमासङ्ख्येय भागयोस्तत्तत्काल भाविचिन्तानुकूलपर्यायालिङ्गितानि सञ्ज्ञिभिर्जीवैर्मन्यमानमनोद्रव्याण्येव तत्तत्काल - १. 'वाननुकुलपर्यायाणां इति सि. गा.-३९ १११
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy