SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ गा.-३९ बन्धशतकप्रकरणम् AAAAAAAAAAAAAAAAAAAAAA | श्रुतज्ञानमात्रभेदाभिधानस्यैव विवक्षितत्वाददोषः । अक्षरं त्रिधा सञ्ज्ञाक्षरं व्यञ्जनाक्षरं लब्ध्यक्षरं चेति । तत्र सञ्ज्ञाक्षरं विचित्रलिपिस्वरूपं, यथा घटाकृतिष्टकार इत्यादि । व्यञ्जनाक्षरं तु जीवव्यापारनिसृष्टवाग्द्रव्यसमूहम् । लब्ध्यक्षरं तु शब्दश्रवणरूपादिदर्शनादेरर्थविनिश्चायकान्त:प्लवमानाकारादिवर्णोपलब्धिरूपम् । अनेनैव चेहाधिकारः, श्रुतज्ञानरूपत्वादस्यैव, न त्वाद्ययोर्जडत्वात् । तत्र अकारादिलब्ध्यक्षराणामन्यतरदक्षरम् । एतेषामेव द्वयादिसमुदयोऽक्षरसमासः । पदं त्वर्थपरिसमाप्तिः पदमित्याधुक्तिसद्भावेऽपि येन केनचित्पदेनाष्टादशपदसहस्रादिप्रमाणा आचारादिग्रन्था गीयन्ते तदिह गृह्यते, तस्यैव द्वादशाङ्गश्रुतपरिमाणेऽधिकृतत्वाच्छृतभेदानामेव चेह प्रस्तुतत्वात् तस्य च पदस्य तथाविधाम्नायाभावात् प्रमाणं न ज्ञायते, तत्रैकं पदं पदमुच्यते । द्व्यादिपदसमुदायस्तु पदसमासः । “गइइंदिए य काए" इत्यादिगाथाप्रतिपादितद्वारकलापस्यैकदेशो यो गत्यादिकस्तस्याप्येकदेशो यो नरकगत्यादिस्तत्र जीवादिमार्गणा यका क्रियते सा सङ्घातः । द्वयादिगत्याद्यवयवमार्गणा सङ्घातसमासः । गत्यादिद्वाराणामन्यतरैकपरिपूर्णगत्यादिद्वारे जीवादिमार्गणाप्रतिपत्तिः । द्वारद्वयादिमार्गणा तु प्रतिपत्तिसमासः । “संतपयपरूवणया दव्वपमाणं च''इत्याद्यनुयोगद्वाराणामन्यतरदेकमनुयोगद्वारमुच्यते । तद्व्यादिसमुदायस्त्वनुयोगद्वारसमासः । प्राभृतान्तवर्ती अधिकारविशेषः प्राभृतप्राभृतं । तद्व्यादिसंयोगस्तु प्राभृतप्राभृतसमासः । वस्त्वन्तर्वर्ती अधिकारविशेषः प्राभृतं । तव्यादिसंयोगस्तु प्राभृतसमासः । पूर्वान्तर्वर्ती अधिकारविशेषो वस्तु । तव्यादिसंयोगस्तु वस्तुसमासः । पूर्वमुत्पादादि १. सत्पदप्ररूपणाद्रव्यप्रमाणं च । १०८
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy