________________
गा.-३९
बन्धशतक-A प्रकरणम्
प्रतीतं । तव्यादिसंयोगस्तु पूर्वसमासः । एवमेते सक्षेपतः श्रुतज्ञानस्य विंशतिधंदा दर्शिताः । विस्तरार्थिना तु बृहत्कर्मप्रकृतिचूर्णिरन्वेषणीया । एते च पर्यायादयः श्रुतभेदा यथोत्तरं तीव्रतीव्रतरादिक्षयोपशमलभ्यत्वादित्थं निर्दिष्टा इति | भावनीयमिति । प्रकारान्तरेण श्रुतज्ञानं चतुर्दशादिभेदस्वरूपमपि भवति । तच्च
अक्खरसण्णीसम्मं सादीयं खलु सपज्जवसियं च । गमियं अंगपविट्टं सत्तवि एए सपडिवक्खा ॥१॥ इत्याद्यनुसारत आवश्यकादिभ्योऽवसेयमिति । तस्यैतावद्भेदभिन्नस्य श्रुतज्ञानस्यावरणस्वभावं कर्म श्रुतज्ञानावरणम् । अत्र चाभिनिबोधिकश्रुतज्ञानयोः स्वामिकालकारणविषयपरोक्षत्वैस्तुल्यमवसेयम् । तथाहि-स्वामी द्वयोरप्येको "रजत्थ मइनाणं तत्थ सुयनाणं जत्थ सुयनाणं तत्थ मइनाणं 'इति वचनात् । तथा कालोऽप्येको नानाजीवानाश्रित्य द्वयोरपि सर्वकालमनुच्छेदाद्, एकजीवं तु प्रतीत्य सातिरेकषट्षष्टिसागरोपमस्थितित्वात् । कारणमपि मनः षष्ठेन्द्रियपञ्चकलक्षणं तुल्यमेव । विषयोऽपि सर्वद्रव्यक्षेत्रकालौदयिकादिभावलक्षणस्तुल्य एव । परोक्षत्वेन च द्वेऽपि तुल्ये इति ।
आह-यद्येवं तहि द्वयोरप्येकत्वमस्तु ! भेदे हेत्वभावादभेदहेतूनां चाभिहितत्वात्, तदयुक्तं, भेदहेत्वभावस्यासिद्धत्वात्, तथाहि-स्वाम्यादिभिरभेदे सत्यपि लक्षणभेदादनयोर्भेदः । स चाभिमुखो नियतो बोधोऽभिनिबोधः, श्रवणं श्रुतमित्यादिना दर्शित
१. अक्षरं सज्ज्ञि सम्यक् सादिकं खलु सपर्यवसितं च । गमिकमङ्गप्रविष्टं सप्तापि एते सप्रतिपक्षाः ॥१॥ २. यत्र मतिज्ञानं तत्र श्रुतज्ञानं यत्र श्रुतज्ञानं तत्र मतिज्ञानम् ।
१०९