________________
गा.-३९
बन्धशतकप्रकरणम्
इन्द्रियमनोनिमित्तः श्रुतानुसारी अभिलापप्लावितो ज्ञानविशेषः श्रुतज्ञानमिति तात्पर्यम् । तच्च विंशतिभेदं, तद्यथा
पज्जयअक्खरपयसंघाया पडिवत्ति तह य अणुओगो । पाहुडपाहुडपाहुडवत्थुपुव्वा य ससमासा ॥१॥ अस्य व्याख्या-पर्यायश्च अक्षरं च पदं च सङ्घातश्च पर्यायाक्षरपदसङ्घाता: 'पडिवत्ति'त्ति प्रतिपत्तिः प्राकृतत्वात् लुप्तविभक्तिको निर्देशः । तथाऽनुयोगो अनुयोगद्वारलक्षणः प्राभृतप्राभृतं च प्राभृतं च वस्तु च पूर्वं च प्राभृतप्राभृतप्राभृतवस्तुपूर्वाणि, प्राकृतत्वाल्लिङ्गव्यत्ययः, चः समुच्चये । एते पर्यायादयः श्रुतस्य दशभेदाः कथंभूता इत्याह-'ससमास'त्ति समासः सझेपो मीलक इत्यर्थः, सह समासेन वर्तन्ते ससमासास्ततश्च प्रत्येकं सम्बन्धः, तद्यथा-पर्याय: पर्यायसमासोऽक्षरमक्षरसमास एवं शेषेष्वप्यष्टसु भेदेषु योजनीयमितिविंशतिभेदं श्रुतं भवतीति गाथाक्षरार्थः । ।
भावार्थस्त्वयम्-पर्यायो ज्ञानस्यांशोऽविभागपलिच्छेद इत्यनर्थान्तरं तत्रैको ज्ञानांश: पर्यायोऽनेके तु ज्ञानांशाः पर्यायसमासः, एतदुक्तं भवति लब्ध्यपर्याप्तस्य सूक्ष्मनिगोदजीवस्य यत्सर्वजघन्यं श्रुतज्ञानमात्रं तस्मादन्यत्र जीवान्तरे य एकः श्रुतज्ञानांशोऽविभागपलिच्छेदरूपो वर्त्तते स पर्यायः । ये बुद्ध्यादय श्रुतज्ञानाविभागपलिच्छेदा नानाजीवेषु वृद्धा लभ्यन्ते ते समुदिताः पर्यायसमासः ।
अत्राह-ननु निगोद जीवसम्भवी पर्यायः पर्यायसमासो वा कथमिह श्रुतज्ञानभेदत्वेन गृह्यते ? तेषां मिथ्यादृष्टित्वेन तच्छ्रुतज्ञानस्य मिथ्यारूपत्वात्, सम्यक्श्रुतविचारस्य चेह प्रस्तुतत्वात्, सत्यं, किन्तु सम्यगसम्यक्त्वतामुत्सृज्य सामान्य
apra
१०७