SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ बन्धशतक गा.-३९ सह द्वात्रिंशद्विधं भवति । अथवा "बहुबहुविधक्षिप्रानिश्रितासन्दिग्धध्रुवाणां सेतराणाम्''इति वचनादष्टाविंशतिरपि द्वादशधा भिद्यते, तथाहि-बहूनां श्रोतृणामविशेषेण प्राप्तिविषयस्थेऽपि शङ्खभेर्यादितूर्यसमुदाये क्षयोपशमवैचित्र्यात् कश्चिदवग्रहादिभिः बहु गृह्णाति एकहेलास्फालितानामपि शङ्खादितूर्याणां पृथक् पृथक् शब्दं गृह्णातीत्यर्थः । अपरस्त्वबहु गृह्णाति, अव्यक्ततूर्यध्वनिमेवोपलभत इत्यर्थः । अन्यस्तु योषिदादिवाद्यमानतारमधुरमन्द्रत्वादिबहुपर्यायोपेतान् शङ्खादिध्वनीन् पृथग् जानातीति बहुविधग्राहीत्युच्यते । एकद्विपर्यायोपेतांस्तु तानेव जानानोऽबहुविधग्राही । अन्यस्तु क्षिप्रमचिरेणार्थं जानाति । अन्यस्तु विमृश्य विमृश्य चिरेणेति । अन्यस्त्वनिश्रितमलिङ्गं गृह्णाति, न पुनः पताकयेव देवकुलम् । अन्यस्तु पताकया देवकुलमिव लिङ्गनिश्रया गृह्णाति । तथा यदसंशयं गृह्णाति, तदसन्दिग्धं । संशयोपेतं तु गृह्णाति, तत् सन्दिग्धं । तथा यदेकदा गृहीतं तत्सर्वदैवावश्यं गृह्णाति, न पुनः कालान्तरे तद्ग्रहणे परोपदेशादिकमपेक्षते तद् ध्रुवं । यत्तुपुनः कदाचिदेव गृह्णाति न सर्वदा तदध्रुवं एवमेतैर्द्वादशभिर्भेदैरवग्रहादयः पूर्वोक्तभेदयुक्ता वस्तु गृह्णन्तीत्यष्टाविंशत्या द्वादशभिर्गुणितया त्रीणि शतानि षट्त्रिंशानि तानि चाश्रुतनिश्रितबुद्धिचतुष्टयेन सह चत्वारिंशानि त्रीणि शतानि भेदानामाभिनिबोधिकज्ञानस्य भवन्ति । तत्रैतावद्भेदभिन्नस्यास्यैतावद्भेदमेव यदावरणस्वभावं कर्म तदाभिनिबोधकज्ञानावरणमेकग्रहणेन गृह्यते, चक्षुषः पटलमिवेति ।। तथा श्रवणं श्रुतमभिलापप्लावितार्थग्रहणप्रत्यय उपलब्धिविशेषः, श्रुतं च तज्ज्ञानं च श्रुतज्ञानं, अथवा श्रूयते असाविति श्रुतं | शब्दश्चासौ कारणे कार्योपचाराद् ज्ञानं च श्रुतज्ञानं, शब्दो हि श्रोतुः साभिलापज्ञानस्य कारणं भवतीति सोऽपि श्रुतज्ञानमुच्यते । १०६
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy