SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ बन्धशतक चेत् ? उच्यते-उपकरणेन्द्रियस्य कदम्बपुष्पाद्याकृतेः श्रोत्रघ्राणरसनस्पर्शलक्षणस्य शब्दगन्धरसस्पर्शपरिणतद्रव्याणां च यः प्रकरणम् परस्परसम्बन्धः प्रथममुपश्लेषमात्रं तदिह व्यञ्जनमुच्यते, अपरं चेन्द्रियेणाऽप्यर्थस्य व्यज्यमानत्वात् तदपीन्द्रियं व्यञ्जनमुच्यते, ततश्च व्यञ्जनेन इन्द्रियलक्षणेन व्यञ्जनस्य इन्द्रियविषयसम्बन्धलक्षणस्यावग्रहणं परिच्छेदनमेकस्य व्यञ्जनशब्दस्य लोपाद् व्यञ्जनावग्रहः । ‘किमपीदम्’इत्यव्यक्तज्ञानरूपार्थावग्रहादधोऽव्यक्ततरज्ञानमात्रमित्यर्थः, अयं च नयनमनोवर्ज्येन्द्रियचतुष्टयभेदाच्चतुर्द्धा, नयनमनसोरप्राप्यकारित्वेन विषयसम्बन्धाभावादस्य चेन्द्रियस्य विषययोः सम्बन्धग्राहकत्वादिति भावः । अर्यत इत्यर्थः, तस्य शब्दरूपादिभेदानामन्यतरेणापि भेदेनाऽनिर्द्धारितस्य सामान्यरूपस्यावग्रहणमर्थावग्रहः 'किमपीदम्' इत्यव्यक्तज्ञानमित्यर्थः, स च मनः सहितेन्द्रियपञ्चकजन्यत्वात् षोढा, अवगृहीतस्यैव वस्तुनोऽपि किमयं भवेत् स्थाणुरेव न तु पुरुष' इत्यादिवस्तुधर्मान्वेष णात्मकं ज्ञानमीहा, ईहनमीहेति कृत्वा, अरण्यमेतत् सविताऽस्तमागतो न चाधुना संभवतीह मानवः । प्रायस्तदेतेन खगादिभाजा भाव्यं स्मरारातिसमाननाम्ना ॥१॥ इत्याद्यन्वयधर्मघटनव्यतिरेकधर्मनिराकरणाभिमुखतालिङ्गितो विशेषज्ञानहेतुरिति हृदयम् । साऽपि मनः सहितेन्द्रियपञ्चजन्यत्वात् षोढैव, ईहितस्यैव वस्तुनः स्थाणुरेवायमित्यादिनिश्चयात्मको बोधविशेषोऽपायोऽयमपि पूर्ववत् षोढैव । तथा निश्चितस्यैवाविच्युतिस्मृतिवासनारूपं धरणं धारणा साऽप्युक्तवत् षोढैव । तदेवमर्थावग्रहादीनां चतुर्णां प्रत्येकं षड्विधत्वात् | व्यञ्जनावग्रहभेदचतुष्टयेन सह श्रुतनिश्रितमाभिनिबोधिकज्ञानमष्टाविंशतिविधं भवति । अश्रुतनिश्रितेन औत्पत्तिक्यादिबुद्धिचतुष्टयेन गा. ३९ १०५
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy