________________
बन्धशतक प्रकरणम्
भोगवीर्यान्तरायभेदादिति । एवं च कृत्वा ज्ञानावरणे पञ्चप्रकृतयो, दर्शनावरणे नव, वेदनीये द्वे, मोहनीये सम्यक्त्वमिश्रवर्ज्याः षड्विंशतिः, आयुषि चतस्रः, नाम्नि भेदान्तरसम्भवेऽपि सप्तषष्टिः, गोत्रे द्वे, अन्तराये पञ्च, एवमेतद्विशत्युत्तरं प्रकृतिशतं बन्धे पुरस्तादुपयोक्ष्यते । तदेवं प्रकृतिसमुत्कीर्त्तना कृता ।
साम्प्रतं प्रतिप्रकृति भावार्थ उच्यते तत्रापि यथोद्देशं निर्देश इति पूर्वं ज्ञानावरणमुच्यते । तत्र ज्ञायते परिच्छिद्यते वस्त्वनेनेति ज्ञानं ज्ञाप्तिर्वा, सामान्यविशेषात्मके वस्तुनि विशेषग्रहणात्मको बोध इत्यर्थः । आव्रियते आच्छाद्यते अनेनेत्यावरणं मिथ्यात्वादिसचिवजीवव्यापाराहृतकर्मवर्गणान्तःपातिविशिष्टपुद्गलसमूह इत्यर्थः । ज्ञानस्यावरणं मूलप्रकृतिस्तस्य प्रथमभेद आभिनिबोधिकज्ञानावरणं, तत्र अभीत्याभिमुख्ये, नीति नैयत्ये, ततश्चाभिमुखो वस्तुयोग्यदेशावस्थानापेक्षी, नियत इन्द्रियाण्याश्रित्य स्वस्वविषयापेक्षी, बोधनं बोधो अभिनिबोधः स्वार्थिकतद्धितोत्पादात् स एवाभिनिबोधिकम् । अभिनिबुध्यत इत्यभिनिबोध इति कर्त्तरि वा, अथवा अभिनिबुध्यते आत्मना स इति कर्मणि स एवाभिनिबोधिकमिति । ततश्चाभिनिबोधिकं | च तत् ज्ञानं चाभिनिबोधिकज्ञानमिन्द्रियपञ्चकमनोनिमित्तोऽश्रुतानुसारी बोध इत्यर्थः । तच्च द्विधा, श्रुतनिश्रितमश्रुतनिश्रितं च, तत्र प्रायः श्रुताभ्यासमन्तरेणापि यत्सहजविशिष्टक्षयोपशमवशादुत्पद्यते, तदश्रुतनिश्रितमौत्पत्तिक्यादिबुद्धिचतुष्टयम् । यत्तु पूर्वं श्रुतपरिकर्मितमतेर्व्यवहारकाले त्वश्रुतानुसारितया समुत्पद्यते, तत् श्रुतनिश्रितम्, तच्चतुर्द्धा भवति, तद्यथा - अवग्रह, ईहा, अपायो, धारणा चेति । पुनरवग्रहो द्विधा, व्यञ्जनावग्रहोऽर्थावग्रहश्च तत्र व्यज्यते प्रकटीक्रियते शब्दादिरर्थोऽनेनेति व्यञ्जनं, किं तदिति
गा.-३९
१०४