SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ बन्धशतक गा.-३९ प्रकरणम् एकैकस्वरूपाश्चत्वारो गृह्यन्ते । आनुपूर्वी नाम चतुर्द्धा, नरकतिर्यङ्मनुष्यदेवानुपूर्वीनामभेदादिति । विहायोगतिनाम द्वेधा, प्रशस्त| विहायोगतिनाम अप्रशस्तविहायोगतिनाम चेति । एवमेते एकोनचत्वारिंशद्गत्यादिपिण्डप्रकृतिभेदा अनन्तरोक्तैस्त्रसनामादिप्रत्येकप्रकृतिभेदैरष्टाविंशत्या सह नामप्रकृतीनां सप्तषष्ठिर्भवति । त्रिनवतिस्तु यदा शरीरनाम्नः पृथगौदारिकवैक्रियाहारकतैजसकार्मणबन्धनभेदाद् बन्धननाम पञ्चधा विवक्ष्यते । सङ्घातनामापि शरीपञ्चकभेदात् पञ्चधा, एवमेता दश । वर्णनामापि कृष्णादिभेदात् पञ्चधा, गन्धनाम सुरभिदुरभिनामभेदाद् द्विधा, रसनाम तिक्तरसादिभेदात् पञ्चधा, स्पर्शनाम कर्कशनामादिभेदादष्टधा, एवमेता विंशतिप्रकृतयः । एतासां मध्याद्वर्णगन्धरसस्पर्शानां सामान्यतश्चतुर्णा सप्तषष्टिपक्षेऽपि गृहीतत्वात् तदपगमे शेषाः षोडश 'सर्वासां मीलने षड्विंशतिर्भवति । ततः पूर्वोक्तायाः सप्तषष्ठेमध्ये चैतत्प्रक्षेपे नामप्रकृतीनां त्रिनवतिर्भवति । इह च प्रकारान्तरविवक्षया बन्धननाम पञ्चदशविधमपि भवति, तद्यथा-औदारिकौदारिकबन्धननाम औदारिकतैजसबन्धननाम औदारिककामणबन्धननाम औदारिकतैजसकार्मणबन्धननाम एवं वैक्रियाहारकयोरपि प्रत्येकं चत्वारि बन्धनानि वक्तव्यानि । केवलमौदारिकस्थाने वैक्रियमाहारकं च वक्तव्यम् । तथा तैजस बन्धननाम तैजसकामणबन्धननाम कार्मण बन्धननामेत्येवमेताः पञ्चदश बन्धननामप्रकृतयः । अत्र च सामान्यत औदारिकादिबन्धनपञ्चकस्य त्रिनवतिमध्ये पूर्वमेव प्रक्षिप्तत्वाच्छेषा दश प्रक्षिप्यन्ते । जातं नामप्रकृतीनां व्युत्तरशतं । गोत्रं द्विधा, उच्चैर्गोत्रं नीचैर्गोत्रं चेति । अन्तरायं पंचधा, दानलाभभोगोप १. 'बन्धनसंघातनदशकेन सह षड्विंशतिप्रकृतयो भवन्ति' इतिप्र । १०३
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy