________________
गा.-३९
बन्धशतकप्रकरणम्
प्रत्येकप्रकृतयः । तत्र पिण्डप्रकृतयो गतिनाम, जातिनाम, शरीरनाम, अङ्गोपाङ्गनाम, सङ्घातनाम, बन्धननाम, संहनननाम, संस्थाननाम, वर्णनाम, गन्धनाम, रसनाम, स्पर्शनाम, आनुपूर्वीनाम, विहायोगतिनामेत्येताश्चतुर्दशापि पिण्डप्रकृतय उच्यन्ते । गतिनामादिभिर्वक्ष्यमाणचतुरादिभेदानामत्र पिण्डनत्वप्रतिपादनादिति । प्रत्येकप्रकृतयस्त्वष्टाविंशतिरिमा:-त्रसनाम, स्थावरनाम, बादरनाम, सूक्ष्मनाम, पर्याप्तनाम, अपर्याप्तनाम, प्रत्येकनाम, साधारणनाम, स्थिरनाम, अस्थिरनाम, शुभनाम, अशुभनाम, सुभगनाम, दुर्भगनाम, सुस्वरनाम, दुःस्वरनाम, आदेयनाम, अनादेयनाम, यश:कीर्तिनाम, अयश:कीर्तिनाम, अगुरुलघुनाम, उपघातनाम, पराघातनाम, उच्छासनाम, आतपनाम, उद्योतनाम, निर्माणनाम, तीर्थकरनाम चेति । एवं सर्वा अप्येता द्विचत्वारिंशन्नामप्रकृतयः । उपलक्षणं चैताः सूत्रे प्रोक्ताः विवक्षान्तरेण हि सप्तषष्ठिरपि नामप्रकृतयो भवन्ति, तथा त्रिनवतिस्त्र्युत्तरशतं च । तत्र सप्तषष्टिर्भेदा गत्यादिपिण्डप्रकृतयो नरकगत्यादिभेदेन भिद्यन्ते तदा भवन्ति । तद्यथा-गतिनाम चतुर्द्धा, नरकगतितिर्यग्गतिमनुष्यगतिदेवगतिनामभेदादिति । जातिनाम पञ्चधा, एकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियजातिनामभेदादिति । शरीरनाम पञ्चधा, औदारिकवैक्रियाहारकतैजसकार्मणनामभेदादिति । अङ्गोपाङ्गनाम त्रिधा औदारिकवैक्रियाहारकाङ्गोपाङ्गानामभेदादिति । बन्धनसङ्घातनामकर्मणी अत्र पक्षे न गृह्येते, तयोः शरीराश्रितत्वाच्छरीरनामान्तर्गतत्वेनैव विवक्षितत्वादिति । संहनननाम षोढा, वज्रर्षभनाराचऋषभनाराचनाराचार्द्धनाराचकीलिकासेवार्त्तसंहनननामभेदादिति । संस्थाननाम षोढा-समचतुरस्रन्यग्रोधपरिमण्डलसादिवामनकुब्जहुण्डसंस्थाननामभेदादिति । वर्णगन्धरसस्पर्शा अप्यत्र पक्षे भेदरहिता एव
१०२