________________
बन्धशतक
गा.-३७
अवशेषा ये भणितशेषा मिथ्यादृष्ट्यादयः प्रमत्तावसानास्ते अष्टविधं कुर्वन्तीत्यभिधानलक्षणत्वात् कृदादीनां टप्रत्यये अष्टविधकरा अष्टविधका सन्तः किमित्याह-वेदयन्त्यष्टाविति गम्यते । उदीरका अप्यष्टानामेव । ननु सप्त किमिति नोदीरयन्तीति चेत् ? उच्यते, सप्तविधोदीरणा हि वेद्यमानायुष आवलिकाप्रवेशकाल एव प्रागुक्ता, सा चाष्टविधं बनतां न सम्भवति । अष्टविधबन्धो ह्यायुर्बन्धकाल एव भवति नान्यदा, आयुर्बन्धश्च वेद्यमानायुस्त्रिभागे त्रिभागत्रिभागे वा यावदन्तर्मुहूर्ते शेष एव सति भवति, तदा चाष्टविधस्यैवोदीरणा । अतो युक्तमुक्तमष्टविधं बध्नतोऽष्टानामेवोदीरका इति । अत एव चात्र बनादिसंयोगचिन्तायाः प्रत्येकचिन्तातो व्यक्तो विशेषः समुपलक्ष्यते । प्रत्येकचिन्तायां सप्ताष्टविधबन्धस्य सप्ताष्टविधोदीरणायाश्चामीषां सामान्येनैवोक्तत्वादत्र तु संयोगचिन्तायामष्टविधं बनतामष्टविधस्यैवोदीरणेति विशेषव्यवस्थापितत्वादिति । 'सत्तविहगावि'इत्यादि सप्तविधमपि बध्नन्त इति तात्पर्यम्, वेदयन्ति तावदष्टविधमेव । 'उईरणे भज्जति उदीरणामाश्रित्य सप्तविधमष्टविधं वा उदीरयन्ति । वेद्यमानायुष आवलिकाप्रवेशकाले आयुर्वर्जत्वात् सप्तविधं, ततोऽन्यत्राष्टविधमित्यर्थः । अपरं चेह सम्यमिथ्यादृष्टिरायुर्बन्धरहितत्वात् सर्वदैव सप्तविधं बध्नाति, अष्टविधं वेदयत्युदीरयत्यपि । प्रागुक्तयुक्त्याऽष्टविधमेव न कदाचित्सप्तविधमपीति द्रष्टव्यम् । एतच्च गुणस्थानकानि भूम्यादावालिख्य यन्त्रकं कृत्वाऽवहितधिया सर्वं भावनीयमिति गाथार्थः ॥३७॥
भा० अवसेसा मिच्छाई पमत्तयंता उ तेसु वि अडबंधा । सगबंधगा वि अड वेययंति य उदीरणे भज्जा ॥१८८॥