________________
बन्धशतक प्रकरणम्
अनिवृत्तिनिवृत्त्यप्रमत्तयतयस्त्रयोऽपि ते पूर्वोक्तस्वरूपाः परिपूर्णमष्टविधं वेदयन्तः षड्विधमायुर्वेदनीयवर्जं प्रकृतिषट्कमुदीरयन्ति, आयुर्वर्जं प्रकृतिसप्तकं तु बध्नन्ति ।
नन्वप्रमत्त आयुरपि बध्नातीति तस्य किमित्यष्टविधोऽपि बन्धो नोक्तः, सत्यं, किन्तु नासौ स्वयं तद्बन्धमारभते । अपि तु प्रमत्तेनैवारब्धं कदाचित्समर्थयत इति ज्ञापनार्थं सतोऽप्यविवक्षा । 'अप्रमत्तयतिश्च' इति सूत्रे चशब्दात्सोऽप्युक्तो द्रष्टव्य इति गाथार्थः ॥ ३६ ॥
भा० आउयबंधारंभं पमत्तठाणे करित्तु अपमत्ते | ठाणम्मि समत्थेई जई वि हु कयावि किर तहवि ॥ १८५ ॥
न भणिज्जइ अडविहबंधगो त्ति अहवा चसद्दओ सोऽवि । इह भणिओ दट्ठव्वो एवं पच्छाणुपुव्वी ॥१८६॥ बंधाइयसंजोगं अपमत्तंतं भणित्तु अह ताण । मिच्छासासाइयाण छगुणाणं भणइ संजोगं ॥ १८७॥ तदेवं पश्चानुपूर्व्या प्रायो नामग्राहमयोगिकेवलिन आरभ्याप्रमत्तपर्यन्तं बन्धादिभिः संयोगमभिधायाऽधस्तनानां सामान्येन युगपद्विवक्षुराह
अवसेसट्टविहकरा वेयंति उदीरया वि अट्ठण्हं । सत्तविहगा वि वेइंति अट्ठगमुईरणे भज्जा ॥३७॥
s s s s s s
गा.-३७
९७