________________
गा.-३०
बन्धशतकप्रकरणम्
भा० मिच्छाइयगाहाए अट्ठ उईरंति इइ च वुत्ते वि । मीसस्सट्टविहोदीरणा व न हु होइ सत्तविहा ॥१६५॥
मिस्से मिस्सत्तेतर मुहुत्तमेत्ते व एइ आउम्मि । सत्तविहउदीरणया आवलिमेत्ता कहं तत्थ ॥१६६॥ आवलियाए अद्धाविसेसणा नामठवणमाईणं । आवलियाण वुदासेण एत्थ कालावली गब्भा ॥१६७॥
वेयणियाउयवज्जे छक्कम्म उदीरयंति चत्तारि ।
अद्धावलियासेसे सुहुमो उइरेइ पंचेव ॥३०॥ वेदनीयायुषी वर्जयित्वा शेषाणि षट्कर्माणि चत्वारो जना अप्रमत्तापूर्वकरणाऽनिवृत्तिबादरसूक्ष्मसम्परायलक्षणा उदीरयन्ति, अतिविशुद्धत्वेन वेदनीयायुरुदीरणायोग्याध्यवसायाभावादिह च सूक्ष्मसम्परायस्य षण्णामुदीरणा तावदेव द्रष्टव्याः यावदद्यापि मोहनीयमावलिकाशेषं न भवति । तन्मात्रे तर्हि तस्मिन् किं करोति ? इत्याह-अद्धावलिकाशेषे आवलिकामात्रावशेषे मोहनीयकर्मणीति शेषः, सूक्ष्मसम्परायः पञ्चैव ज्ञानदर्शनावरणनामगोत्रान्तरायलक्षणाः प्रकृती: उदीरयति । आवलिकागतमोहनीयस्योदीरणाभावादिति गाथार्थः ॥३०॥