________________
बन्धशतकप्रकरणम्
गा.-३१
३२
वेयणियाउयमोहे वज्ज उरति दोन्निवि पंच ।
अद्धावलियासेसे नामं गोयं च अकसाई ॥३१॥ वेदनीयायुर्मोहान् वर्जयित्वा शेषाणि पञ्च कर्माणि 'दोन्नि' त्ति द्वौ उपशान्तक्षीणमोही उदीरयतः । तत्र मोहनीयमुदयाभावान्नोदीरयतो 'वेद्यमानमेवोदीर्यते' इतिवचनाद्वेदनीयायुषोस्तु कारणं पूर्वोक्तमेव । ननु किं द्वावपि सदैवैतान्युदीरयतः ? | नेत्याह-अद्धावलिकाशेषे आवलिकामानं प्रविष्टे ज्ञानदर्शनान्तरायकर्मणीति शेषः । नामगोत्राख्ये द्वे एव कर्मणी उदीरयति । कः? इत्याह-'अकसाइ' त्ति न विद्यन्ते कषाया अस्येति सर्वधनादेः आकृतिगणत्वान्मत्वर्थीय इन् अकषायी क्षीणमोह - इत्यर्थः।
इदमुक्तं भवति-क्षीणमोहो ज्ञानदर्शनावरणान्तरायाणि क्षपयन् प्रतिसमयं तावदुदीरयति, यावत्केवलोत्पत्तिप्रत्यासत्तावावलिकावशेषाणि भवन्ति, तत ऊर्ध्वमनुदीरयन्नेव क्षपयति आवलिकागतानामुदीरणाभावादिति तदा नामगोत्रयोरेवास्योदीरणासम्भवः । उपशान्तमोहस्तु सर्वदा पञ्चैवोदीरयति, तस्य ज्ञानावरणादीनां क्षयाभावेनाऽऽवलिकाप्रवेशाभावादिति गाथार्थः ॥३१॥
उरेड नामगोए छक्कम्मविवज्जिया सयोगी उ। वटुंतो उ अजोगी न किंचि कम्मं उईरेइ ॥३२॥
AAAAAAAAAAAAAAAAAA