SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ बन्धशतक प्रकरणम् मिच्छादिट्टिप्पभिई अट्ठ उईरंति जा पमत्तो ति । अद्धावलियासेसे तहेव सत्तेवुदीरिंति ॥२९॥ मिथ्यादृष्टेः प्रभृति यावत्प्रमत्तसंयतो यावदद्याप्यावलिकावशेषमात्मीयमायुर्न भवति तावत्सर्वेऽप्यमी निरन्तरम् अष्टापि प्रकृतीः उदीरयन्ति, तदुदीरणायोग्याध्यवसायस्य सर्वेष्वपि भावात् । उदीरणास्वरूपं तु प्रागुक्तवद्भावनीयम् । आवलिकाऽवशेषे स्वायुषि तर्हि का वार्त्तेत्याह- 'अद्धा' इत्यादि-अद्धा कालस्ततश्चाद्धारूपा आवलिका अद्धावलिका । नामस्थापनाद्यावलिकाव्यवच्छेदेन कालरूपा आवलिकेत्यर्थः । सैवाऽद्धावलिका शेषा यत्र तदद्धावलिकाशेषं तस्मिन्नद्धावलिकाशेषे आयुषि यथैव पूर्वमुदीरितवन्तस्तथैव ते उदीरयन्ति, किन्तु सप्तैव प्रकृतीर्न त्वायुष्कम् । आवलिकाशेषस्य तस्योदीरणायाः प्रतिषिद्धत्वाद् इदमुक्तं भवति-प्रचुरस्थितिकमायुः प्रतिसमयं वेद्यमानं तावदुदीर्यते, यावन्मरणसमये आवलिका शेषा तन्मात्रं च तदनुदीर्यमाणमेव वेद्यते तत्स्वाभाव्यादिति । एवमुत्तरत्रापि सर्वत्र भावनीयमिति । अत्र चाविशेषोक्तावपि सम्यङ्मिथ्यादृष्टिरष्टैवोदीरयति, न तु कदाचनापि सप्तेति विशेषो द्रष्टव्यः । सम्यङ्मिथ्यादृष्ट्यायुष आवलिकावशेषताया अभावात्, सहि आयुष्यन्तर्मुहूर्त्तावशेष एव तद्भावं परित्यज्य सम्यक्त्वं मिथ्यात्वं वा नियमात् प्रतिपद्यत इत्यायुष्कस्याऽऽवलिकावशेषकालेऽसौ सम्यग्दृष्टिर्वा स्यात् मिथ्यादृष्टिर्वा, न मिश्र इति नास्य सप्तविधोदीरणासम्भव इति गाथार्थ: ॥२९॥ गा. २९ ८८
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy