________________
बन्धशतक
गा.-२८
प्रकरणम् |
सर्वेऽपि नियमात्-निश्चयेन परिपूर्ण कर्माष्टकमपि वेदयन्ति, मोहादीनां तेषु क्षयाद्यभावादिति भावः । एकविधबन्धकाः | पुनरुपशान्तक्षीणमोहसयोगिकेवलिनश्चत्वारि सप्त वा कर्माणि वेदयन्ति । तत्र घातिकर्मक्षयात् केवली चत्वारि भवोपग्राहीणि वेदयति । उपशान्तक्षीणमोहौ तु मोहोदयाभावाच्छेषाणि सप्त वेदयत इति भावनीयम् । अपरं चेह वा-शब्दस्याव्ययत्वेनानेकार्थत्वादिदमपि सूचितं द्रष्टव्यम्, यदुताबन्धकोऽप्ययोगी चत्वारि भवोपग्राहीणि वेदयतीति गाथार्थः ॥२८॥ भा० सत्तट्ठगाहा उदओ तहिं छसत्तट्टबंधगा दससु । इगबंधा उवसंताईसुं तीसुं इह गुणेसु ॥१५९॥
उदओ मिच्छाइदससु अट्ठदयुवसम्मि खीणि सत्तेव । मोहविणा भवुवग्गहचउकम्मा जोगजोगिम्मि ॥१६०॥ वासद्दो बहुअत्थो तो वासद्दा इमंपि विन्नेयं । अबंधगो व जोगी वेयइ चत्तारि कम्माणि ॥१६॥ उदयं भणित्तु पभणइ उदीरणं मिच्छादिट्ठि एमाई । गाहाणं चउगेणं तस्स पुणो एस भावत्थो ॥१६२॥ उद्दीरणाए आइदुचउपणछसु सत्तड तइए अट्ठ । सगडनवदसगुणेसुं वेयणियाउय विणा छच्च ॥१६३॥
दसमाइसु तिसु पंच उ मोहाऊवेयरहिय तह खीणे । जोगिम्मि य दो गोयं नामं च अजोगि नोदीरे ॥१६४॥ इदानीमुदीरणाविधिमाह