________________
अर्थप्रकाशसमेता
एवं समग्राणि कर्माणि विधाय तत्र सङ्गफलत्याग एव तत्त्यागी विज्ञेयो न स्वरूपेण कार्यः । कुत इति चेत्,
' नियतस्य तु संन्यासः कर्मणो नोपपद्यते । मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ' ॥
तथा कृतश्वेत्त्यागः
4
Occ
दुःखमित्येव यत्कर्म कायक्लेशमयात्त्यजेत् । स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ' ॥ कथम्, कर्माभावे चित्तशुद्धयभावस्तदभावे रजस्तमोगुणयुक्तः संन्यासी न स संन्यासी तद्धर्माभावात्तेन कुतो मोक्षस्तस्मात्स्वरूपतः कृते कर्मत्यागे न त्यागफलं मोक्षो लभ्यते । तस्मात् - ' कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन ।
सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः
"
6
"
तस्मादेवं यः कर्मफलत्यागी स त्यागीत्यभिधीयते । तस्यैव मोक्षो नेतरस्य तदेवोच्यते-
' अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् । भवत्यत्यागिनां प्रेत्य नतु संन्यासिनां क्वचित् ' ॥ इति ।
यस्मादेवं तस्माद्य उक्तः श्रूयते स काम्यस्यैव कर्मणो विज्ञेयस्तदेवेहामुत्र स्थितफलदानेन संसारस्य जनकं न निष्कामं तदेवोक्तम्4 काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः ॥ ' इति । तथाऽन्यत्रापि च
' मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः । नित्यनैमित्तिके कुर्यात्प्रत्यवायजिघांसया ' ॥ इति । यत्र काम्यकर्मपरित्यागस्तत्र निषिद्धाचरणं कुतोऽतः काम्यकर्मपरित्यागेन यद्विहितं नित्यनैमित्तिकं कर्म तत्सङ्गफलत्यागयोगेनावश्यं कार्यमेवात एबोक्तमत्र
कुर्वनवेह कर्माणि जिजीविषेच्छतः समाः ' । इति ।
अथ कथं सङ्गफलत्यागलक्षणमिति चेत्, उक्तप्रकारेण सर्वं परब्रह्मरूपमेवेति निश्चित्य समताबुद्धयाऽहंममत्व परित्यागेन -
'कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः ' ॥
तथा ' गुणा गुणेषु वर्तते इति मत्वा कृतेन कर्मणा न लिप्तो भवति । यद्वा,