________________
३
ईशावास्योपनिषत् । तत्स्वर्गस्य प्रापकं तत्सुकृतक्षयेण पुनरस्य लोकस्येहामुत्र च स्थितमोगवासनाभिवृद्ध्या संसारस्वैव जनकमतस्तद्वादिनांनिन्दाऽपि बहुधोच्यते। 'प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म ।। एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति । अविद्यायामन्तरे वर्तमानाः स्वयंधीराः पण्डितंमन्यमानाः। जघन्यमानाः परियन्ति मूढा अन्धेनैव नीयमाना यथाऽन्धाः॥ अविद्यायां बहुधा वर्तमाना वयं कृतार्था इत्यभिमन्यन्ति बालाः । यत्कर्मिणो न प्रवेदयन्ति रागादातुरास्ते क्षीणलोकाश्च्यवन्ते ॥ इष्टापूर्त मन्यमाना वरिष्ठं नान्यच्छ्रयो वेदयन्ते प्रमुढाः। नाकस्य पृष्ठे सुकृतेऽनुभूत्वेमं लोकं हीनतरं वा विशन्ति' ॥ इति । तथा तत्त्यागेनामृतत्वं च 'न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः' इति । एवं सति कथमत्र तद्यावज्जीवं कर्तव्यमित्युच्यते, सत्यं, तेनैव मोक्षप्राप्तिरिति च श्रूयते
'न कर्मणामनारम्भान्नैष्कम्यं पुरुषोऽश्नुते ।
नच संन्यसनादेव सिद्धिं समधिगच्छति ॥
'कर्मणैव हि संसिद्धिमास्थिता जनकादयः'। इत्यनेकैर्वाक्यैस्तस्मादत्र विचारणीयमस्ति नैक एव पक्षोऽङ्गीकर्तुं शक्य इतरस्याप्रामाण्यप्रसङ्गात् । अथात्र कथं स विचार इति चेत्स भगवता विस्तरशः कृत एव श्रूयते
' त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः ।
यज्ञदानतपः कर्म न त्याज्यमिति चापरे । एवं पक्षद्वयश्रवणेन संशयाभिवृद्धौ तदपनोदनाय स्वमतं प्राहाये
'निश्चयं शृणु मे तत्र त्यागे भरतसत्तम । त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः ॥ यज्ञदानतपः कर्म न त्याज्यं कार्यमेव तत् ।
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥ . ननु त्यागं विवक्षता कथं कर्मैव कर्तव्यमित्युक्तमिति चेत्तत्र स्वाभिमतत्यागरूपं पृथगेवाऽऽह
'एतान्यपि तु कर्माणि सई त्यक्त्वा फलानि च । कर्तव्यानीति में पार्थ निश्चितं मतमुत्तमम् ॥ ....