________________
२
अर्थप्रकाशसहिता
"
6
काशः शरीरं य आकाशमन्तरो यमयति स त आत्माऽन्तर्याम्यमृतः इति । कथं च विना मध्यगतसत्तां तदागमनं संभवेत्तस्मान्मध्येऽपि तद्रूपेण तदेवैकं विज्ञेयम् । तथा येन तस्य श्रवणं यश्च श्रोता तद्ब्रह्मैव सत्यं कथं, यः सात्विकः कर्ता स एव रजसा करणरूपो न तयोः स्वरूपभेदोऽस्ति । अत एवोक्तं ' स प्राणन्नेव प्राणो नाम भवति वदन्वाक्पश्यंश्चक्षुः शृण्वभोत्रं मन्वानो मनस्तान्यस्यैतानि कर्मनामा - न्येव ' इति । श्रोता स व्यतिरेकवृत्त्या विचारतः परं ब्रह्मैव । तथा चोक्तम् अयमात्मा ब्रह्म ' इति । यत्परं ब्रह्म तदेव गुणसाम्य भूतचित्प्रकृतियो - गातगुणप्रधानत्वेन त्रिपुटीरूपेणेति पञ्चीकरणप्रकारेण विज्ञायते । तस्मात्तत्सर्वमपि परं ब्रह्मैव । एवं सर्वस्यापि कारणमधिष्ठानं परं ब्रह्मेवैकं सर्वत्र तन्मधुब्राह्मणोक्तं विज्ञातव्यम् । यथा जलादुत्पन्नस्तरङ्गादिर्जलरूपस्तदाधारेणैव विहरत्यन्ते तत्रैवावसीयत इत्येवं विज्ञाय यो विषयभोगः क्रियते स त्यागरूप एव संभवति । तदेवोक्तं भगवता - ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः । लिप्यते न स पापेन पद्मपत्रमिवाम्मसा ' ॥ १ ॥ इति । तस्मात्तेन त्यक्तेन भुञ्जीथा इत्युच्यते । तदेव परमं मोक्षसाधनमिति विज्ञातव्यम् । यस्मादेवं तस्मादहंममतायोगेन भोगापेक्षया कस्यस्विकस्यापि धनं भोगसाधनभूतं मा गृधो मा गार्ध्यमाकाङ्क्षां कार्षीः । यदृच्छालाभसंतुटो द्वन्द्वातीतो विमत्सरो भवेत्तेनैव त्यागसिद्धिरस्ति ॥ १ ॥
"
"
एवं यदा तदा यत्नतः कर्माचरणेन किं प्रयोजनं त्यागेन स्वभावतः सुखमासितव्यमिति प्राप्तं तत्राऽऽह
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतः समाः ।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ २ ॥
इहास्मिलोके कर्माणि विहितान्यग्निहोत्रादीनि कुर्वन्नेव यथाकालं निर्वर्तयन्नेव शतं शतसंख्याकाः समाः संवत्सराञ्जिजीविषेज्जीवितुमिच्छेत् । एवमेवंविधे बाह्यभावेन विहितकर्माचरणशीलेऽन्तस्तूक्तप्रकारेण ब्रह्मात्मभावऩयाऽहंममत्व परित्यागवति त्वयि नर इतोऽस्माज्ज्ञानोक्तकर्माचरणप्रकारादन्यथाऽन्यप्रकारो नाऽस्ति 1 अत एवमाचरणवति त्वयि न कर्म लिप्यते लिप्तं भवति न कर्मलेपोऽस्ति । ननु कर्म विहितं