________________
ॐ तत्सद्ब्रह्मणे नमः।
अर्थप्रकाशसहितेशावास्योपनिषत् ।
अथ यजुषां वाजसनेयशाखायां ज्ञानस्य तत्साधनस्य चोपपादका ईशावास्यमित्यादयोऽष्टादश मन्त्राः सन्ति तेषामधुनाऽर्थः प्रकाश्यते
ईशा वास्यमिद५ सर्व यत्किञ्च जगत्यां जगत् ।
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ॥ १ ॥ इदं प्रत्यक्षत्वेनानुभूयमानं सर्वं नामरूपकर्मात्म जगत्यां जङ्गम्यत इति जगती तस्यां जगत्यां तदुपलक्षितेऽस्मिल्लोकत्रयेऽपि यत्किंच स्थूलसूक्ष्मात्मकं जगत्तदीशेष्ट इतीद् तेनेशा सत्याद्वितीयानन्तपरिपूर्णलक्षगैश्वर्यवता चिदानन्दमयेन शुद्धेन परमात्मना वास्यमाच्छादनीयम् । कुतः, जगतोऽनिर्वचनीयत्वेन विवर्तरूपत्वादस्य कारणत्वात्सत्तारूपत्वाच्च रविरश्मिसंधैर्मुगजलमिव तस्मात्तेन सह तदेवैकमस्त्यत एवोच्यते 'सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत ' ब्रह्मैवेदं विश्वमिदं वरिष्ठमिति । अतो विवेकिभिरन्वयेनेदं सर्वं तद्रपमेव दृश्येत तेनैवंरूपेण त्यक्तेन त्यागेन मुञ्जीथा भुक्ष्व विषयान् । तत्कथम् । पूर्वमज्ञानावस्थायां देहात्मबुद्धिः सत्या तथाच स्त्रीपुत्रादिषु ममता न त्यागो मरणेन वा परित्यागो न संभवति वासनारूपत्वेन विद्यमानत्वात् । तस्मिन्यथावद्वर्तमानेऽप्युक्तविवेकेन सर्वं ब्रह्मैवास्तीति समत्वभावनया योऽहंममत्वपरित्यागः स एव परिज्ञानतः परित्यागस्तेन त्यागेनान्वयज्ञानरूपेण शब्दादिविषयान्भुञ्जीत । कथं तदन्वयज्ञानं शब्दोऽयं विषयः कुत उत्पन्नः किं तस्य रूपमिति विवेचनेन केवलाद्दन्तोष्ठतालुजिह्वादेवाचैतन्यरूपत्वात्तस्य पूर्वभावे संकल्परूपस्य तस्य वक्तैव मूलं रूपं च । वक्ता स विचारतः शुद्धेन रूपेण परं ब्रह्मैवास्ति स यदा शब्दाकारण तदा कारणान्वयेन शब्दोऽपि तद्रूप एव । तस्माद्ब्रह्मण उत्पन्नो ब्रह्मरूपशब्द आकाशमार्गेणाऽऽगतः सोऽपि विचारतो ब्रह्मैवास्मिन्नेव गुण२. दृष्टया त्तस्याऽऽभासमानत्वादपृथक्सिद्धत्वात् । अत एवोक्तम् आकाश. शरीरं ब्रह्म य आकाशे तिष्ठन्नाकाशादन्तरो यमाकाशोभि वेद यस्याऽऽ.