________________
ईशावास्योपनिषत् |
'ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ' !!
इत्युक्तमावेनाप्यसङ्गत्वं संभवति तेन यथाधिकारमसङ्गतया कृतस्य कर्मणः फलं ब्रह्मार्पण मावेनेश्वरार्पणबुद्धया संत्यज्य ममत्वशून्यो भवेत्तेन न कर्म लिप्यते । ननु चेत्कर्म चित्तशुद्धेर्जनकत्वान्मोक्षसाधनं तर्हि मुमुक्षुभिरेव कर्तव्यं किं मुक्तः । तैरपि कर्तव्यं लोकसंग्रहार्थम् । तदेवोक्तं भगवता -
4 यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन । नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥ यदि ह्यहं न वर्ते जातु कर्मण्यतन्द्रितः । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् । संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः
7
॥ इति ।
तस्मान्मुक्तैरपि लोकसंग्रहार्थं कार्यमेव ॥ २ ॥ अथोक्तविधं मोक्षसाधनभूतं कर्म विहायान्यथाचरणशीलान्निन्दति
असुर्या नाम ते लोका अन्धेन तमसा वृताः । तास्ते प्रेत्याभिगच्छन्ति ये के चाऽऽत्महनो जनाः॥ ३ ॥
ते लोकालोक्यन्ते मुज्यन्ते कर्मफलान्यत्र ते लोका असूर्या असुराणां स्वपराहितरतानां स्वभूता असूर्या नाम संभाव्याः । येऽन्धेन गाढेन यत्र न किंचित्कदाचिदपि प्रकाशोपलब्धिस्तद्विधेन तमसाऽज्ञानलक्षणेन यत्र न कदापि विस्फुलिङ्गप्रायेणापि मोक्षसाधनभूतविवेकोत्पत्तिस्तेन तमसावृताः । ते असुर्या नाम लोकाः पुनः संसारप्रद केवलराज'सयोनिरूपाः । तानसुर्यालाकांस्ते प्रेत्य मृत्वाऽभिगच्छन्ति प्राप्नुवन्ति । ते । ये के चाSSत्महन आत्मानं शुद्धबुद्धमुक्त सत्यस्वभावं घ्नन्ति नानाविधसांसारिकतिर्यग्योनिसंबन्धिदुःखयोगेन हिंसन्ति त आत्महनो जनास्ते तान्प्रेत्याभिगच्छन्ति । पुनः कथम् । स्वभावतोऽयं जीवोsविद्याबन्धनेनाssवृतो दुःखसागरे संसारे पतितोऽस्ति तद्गुणप्रधानत्वेन तद्बन्धनं दृढं कृत्वा पुनर्द्वितीयं कर्मबन्धनमापादयन्ति वर्तमानमपि