________________
भाष्यम् उ०१ सू० ३३
परपाषण्डताप्राप्तस्य पुनरागमनविधिः ४१ भवति, संविग्नेषु मिलितश्च संविग्नसदृशो भवति बहुरूपनट इव यथावसरवर्तनशील इति भावः स च संक्लिष्टासंक्लिष्टभेदेन द्विविधः, तम्र-संक्लिष्टसंसक्तस्वरूपमाहगाथा-पंचासवपवत्तो जो, गारवत्तिगसंजुओ ।
इत्थीगिहिसु संवद्धो, संसत्तो संकिलिट्ठगो ॥१॥ छाया-पञ्चाश्रवप्रवृत्तो यो गौरवधिकसंयुतः ।
स्त्रीगृहिपु संबद्धः संसक्तः संक्लिएकः ॥१॥ यः पञ्चसु आश्रवेषु हिंसादिषु प्रवृत्तः स पञ्चाश्रवप्रवृत्तः-हिंसाद्याश्रवेषु प्रवर्तनशीलः, गौरवत्रिकेन ऋद्धिरससातरूपेण संयुतः सहितः, तथा स्त्रीषु स्त्रीरूपेषु गृहिषु पूर्वपश्चात्संस्तुतेषु गृहस्थेषु सम्बद्धः स्त्रीगृहिभिः सह सम्बन्धकारको भवति स संक्लिष्टः संसक्तो ज्ञातव्य इति ॥ १॥
अथाऽसंक्लिष्टसंसक्तस्य स्वरूप गाथाद्वयेनाहगाथा-पासस्थे पासत्थो, अहछंदे होइ सोवि अहछंदो ।
एवं कुसीलमज्झे, ओसन्ने यावि एमेव ॥१॥ संसत्ते संसत्तो, पियधम्मे होइ सोवि पियधम्मो ।
एवं असंकिलिट्ठो, संसत्तो सो मुणेयन्बो ॥२॥ छाया-पावस्थे पार्श्वस्थो, (भवति), यथाछन्दे भवति सोऽपि यथाछन्दः ।
एवं कुसीलमध्ये, अवसन्ने चापि एवमेव ॥१॥ संसक्ते संसक्तः प्रियधर्मणि भवति सोऽपि प्रियधर्माः । एवमसंक्लिष्टः संसक्तः स ज्ञातव्यः॥ २॥
___ अनायोरर्थश्छायागम्य इति न विवियते इति । अत्रेदं विज्ञेयम्-पार्श्वस्थस्य यत्र स्थाने यत् प्रायश्चित्तं कथितं तस्मिन्नेव स्थाने यथाछन्दस्य प्रायश्चित्तं विवर्धयेत् 'अहाछदे विवढेज्जा' इति वचनात् , कथमेवं क्रियते ? आगमनिरपेक्षवर्त्तित्वेन कुप्ररूपणाप्ररूपको भवति, कुप्ररूपणाया बहुदोषत्वात्तस्य प्रायश्चित्ताधिक्यं प्रोक्तम् । अत्राऽयं विवेकः-पार्श्वस्थत्वं भिक्षुगणावच्छेदकाचार्योपाध्यायानां सर्वेषामपि संभवति, यथाछन्दत्वं तु केवलं भिक्षोरेव भवति ततः पार्श्वस्थविषयकं सूत्र त्रिसूत्रात्मकं भवति, यथाछन्दसूत्रं तु एकरूपमेवेति ॥ सू० २९-३२ ॥
सूत्रम्-भिक्खू य गणाओ अवकम्म परपासंडपडिमं उवसंपज्जित्ता णं विहरेज्जा से य इच्छेज्जा दोच्चंपि तमेव गणं उवसंपज्जित्ता ण विहरित्तए, नत्थि णं तस्स तप्पत्तिए केइ छेए वा परिहारे वा नन्नत्य एगाए आलोयणाए ॥ सू० ३३॥ ___ व्य. ६