SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ४० ध्यवहार भिक्खू य गणाओ अवकम्म ओसन्नविहारपडिमं उपसंपज्जित्ता णं विहरेज्जा से य इच्छेज्जा दोच्चपि तमेव गणं उपसंपज्जित्ता णं विहरित्तए अत्थि या इत्य सेसे पुणो आलोएज्जा पुणो पडिक्कमेज्जा पुणो छेयस्स वा परिहारस्स वा उवट्ठावेज्जा ॥ सू० ३१ ॥ भिक्खू य गणाओ अवकम्म संसत्तविहारपडिमं उपसंपज्जित्ता णं विहरेज्जा से य इच्छेउजा दोच्चंपि तमेव गणं उपसंपज्जित्ता ण विहरितए अस्थि या इत्य सेसे पुणो आलोएज्जा पुणो पडिक्कमेज्जा पुणो छेयस्स परिहारस्स वा उवहावेज्जा ॥ सू० ३२ ॥ छाया-भिक्षुश्च गणादवक्रम्य यथाछन्दविहारप्रतिमामुपसंपद्य खलु विहरेत् स च इच्छेत् द्वितीयमपि तमेव गणमुपसंपद्य खलु विहर्तुम् , अस्ति चात्र शेपं पुनरालोचयेत पुनः प्रतिक्रामेत् पुनश्छेदस्य वा परिहारस्य वा उपस्थापयेत् ।। सु० २९ ॥ भिक्षुश्च गणादवक्रम्य कुशीलविहारप्रतिमामुपसंपध खलु विहरेत् स चेच्छेत् द्वितीयमपि तमेव गणमुपसंपश्च खलु विहत्तुम्, अस्ति चात्र शेप पुनरालोचयेत् पुनः प्रतिक्रामेत् पुनश्छेदस्य वा परिहारस्य वा उपस्थापयेत् ।। सू० ३० ॥ भिक्षुश्च गणादवक्रम्य अवसन्नविहारप्रतिमामुपसंपद्य खलु विहरेत् स चेच्छेत् द्वितीयमपि तमेव गणमुपसंपद्य खलु विहर्तुम् अस्ति चात्र शेषं पुनरालोचयेत् पुनः प्रतिकामेत् पुनश्छेदस्य वा परिहारस्य वा उपास्थापयेत् ॥ सू० ३१ ॥ भिक्षुश्च गणादवक्रम्य संसक्तविहारप्रतिमामुपसंपद्य खलु विहरेत् स चेच्छेत् द्वितीयमपि तमेव गणमुपसंपद्य विहर्त्तम् अस्ति चात्र शेषं पुनरालोचयेत् पुनः प्रतिक्रामेत् पुनश्छेदस्य वा परिहारस्य वा उपस्थापयेत् ॥ सू० ३२ ॥ भाष्यम्-'भिक्खू य गणाओ' इति । एतानि चत्वारि सूत्राणि पार्श्वस्थविहारप्रतिमासूत्रवदेव व्याख्येयानि नवरं विशेषः केवलमेतावानेव यदत्र यथाछन्दादयश्चत्वारो वाच्याः । 'अहाछदो' त्ति यथाछन्दः छन्दोऽभिप्राय इच्छा वा, यथा- स्वाभिप्रायानुसारं स्वेच्छानुसारं वा यथैव स्वस्याभिप्रायः यथैव वा स्वस्येच्छा तथैव यो विचरति स यथाछन्दः आगमनिरपेक्षवर्तनशील इत्ययः ॥ सू० २९॥ 'कुसीले'-त्ति कुशीलः कुत्सितम् आगमनिषिद्ध शीलम् आचारः समितिगुप्त्यादिरूपो विद्यते यस्य स कुशीलः ।। सू० ३०॥ 'ओसण्णे'-त्ति अवसन्नः, 'काळे विणए' इत्यादिरूपज्ञानादिसामा चार्यासेवने अवसीदति दुःखमनुभवति, अथवा सामाचारी वितथाम् असत्यां कुर्वन् वर्तते सः साध्वाचारपालने औदासीन्यवान् साध्वाचारपालननिरपेक्ष इत्यर्थः ।। सू० ३१ ॥ 'संसत्ते' त्ति संसक्तः ससक्त इव संसक्तः पार्श्वस्थादीनां संविग्नानां वा सांनिध्यमासाद्य तत्तद्रपेण संनिहितदोषगुण' तत्रैव संसक्तो भवति यथा पार्श्वस्थादिपु मिलितः पार्श्वस्थसदृशो
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy