________________
व्यवहारसूत्र प्रतिक्रमणं ततः कथमत्र पुनः शब्दोपपत्तिः ? अत्रोच्यते-भिक्षुस्वभावस्य ऋजुत्वेन स यत्रैव स्थानेऽतिचारप्रसङ्गः समापतितस्तत्रैव स इत्थम् अचिन्तयत् यत् समापतितमतिचारजातं तदत्रैव आलोचयामि प्रतिक्रमामि पश्चाद् गुरुसमक्षमालोचनां प्रतिक्रमणं च करिष्यामीति । एवं चिन्तयित्वा पूर्वगच्छे आगच्छति ततो घटते एवात्र पुनः शब्दोपादानमिति । अथवा गच्छाद् गतस्य पुनस्तत्रागमनापेक्षया पुनः शब्दोपादानम् तथाहि-'पुणो आलोएज्जा' पुनरिति गत्वा पुनः प्रत्यावर्तितस्य आलोचनां कारयेत् युक्तमेव पुनःशब्दोपादानम् नहि तीर्थकरा एकमक्षरमपि व्यर्थ भाषन्ते इति । एवं पुनरपि स्वगच्छे प्रतिनिवृत्तं साधुं गच्छस्था मुनयो न निन्देयुः न गहेरन् यथा -'समाप्तिं नीताऽनेन प्रतिमा, सांप्रतं पुनरागतो वर्त्तते' इत्यादिवाक्यै. प्रतिनिवृत्तस्य निन्दा गीं न कुर्युः, तस्य शुभपरिणामवत्त्वेन शोभनाध्यवसायवत्त्वेन च प्रतिनिवृत्तत्वादिति ॥ स० २५ ॥
पूर्व भिक्षुसूत्रमुक्त्वा सम्प्रति गणावच्छेदकाऽचार्योपाध्याययोः सूत्रद्वयमाह-'गणावच्छेयए य' इत्यादि 'आयरिय उवज्झाए' इत्यादि ।
सूत्रम्-गणावच्छेयएय गणाओ अवक्कम्म एगल्लविहारपडिमं उवसंपज्जित्ताणं विहरेज्जा, से इच्छेज्जा दोच्चपि तमेव गणं उवसंपज्जित्ताणं विहरित्तए पुणो आलोएज्जा पुणो पडिकमेज्जा पुणो छेयपरिहारस्स उवठ्ठावेज्जा ॥ सू० २६॥
आयरियअवज्झाए य गणाओ अवक्कम्म एगल्लविहारपडिमं उवसंपज्जित्ता णं विहरेज्ना से इच्छेज्जा दोन्चंपि तमेव गणं उवसंपज्जित्ता ण विहरित्तए पुणो आलोएज्जा पुणो पडिक्कमेज्जा पुणो छेयपरिहारस्स उवट्ठाएज्जा ॥ सू० २७ ।।।
छाया-गणावच्छेदकश्च गणावक्रम्य एकाकिविहारप्रतिमामुपसंपद्य खलु विहरेत , स इच्छेत् द्वितीयमपि तमेव गणमुपसंपद्य खलु विहत्तम् पुनरालोचयेत् पुनः प्रतिक्रामेत् पुनः छेदपरिहारस्य उपस्थापयेत् ।। सू० २६ ॥
आचार्योपाध्यायश्च गणादवक्रम्य एकाकिविहारप्रतिमामुपसंपद्य खलु विहरेत् स मत द्वितीयमपि तमेव गणमुपसंपद्य खलु विहत्तुं पुनरालोचयेत् पुनः प्रतिक्रामेत् पुनः छेदपरिहारस्य उपस्थापयेत् ॥ सू० २७ ॥
भाव्यम्-'गणावच्छेयए य' इति । 'आयरियउवज्झाए य' इति च । एतत् सूत्रद्वसमपि भिक्षसूत्रवदेव व्याख्येयं, विशेषः केवलमेतावानेव यत् गणावच्छेदक एकाकिविहारप्रतिमापतिपत्तिकाले गणावच्छेदकत्वं स्वपदं मुक्त्वा प्रतिमा प्रतिपद्यते, आचार्योऽन्यं गणधरं स्वपदे स्थापयित्वा प्रतिमा प्रतिपद्यते इति । शेषं सर्व सूत्रद्वयं भिक्षुसूत्रवदेव ज्ञातव्यम् । अथवा भिक्षुसत्रादिदं नानात्वं यत् गणावच्छेदक आचार्यश्च प्रतिमाप्रतिपत्तिकाले पूर्वगृहीतमुपधि निक्षिमान्यमुपधि प्रायोग्यमुत्पाद्य प्रतिमा प्रतिपद्यते इति, शेषं पूर्ववदेव । सू० २६, २७ ॥