SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० १ सू० २५-२७ एकाकिविहारिणः पुनर्गच्छागमनविधिः ३७ सूत्रम् - जे भिक्खू य गणाओ अवकम्म एगल्लविहार पडिमं उवसंपज्जित्ताणं विहरेज्जा, से य इच्छेज्जा दोच्चपि तमेत्र गणं उवसंपज्जित्ता णं विहरित अस्थिया इत्थ सेसे पुणो आलोएज्जा पुणो पडिकमेज्जा पुणो छेयपरिहारस्स उवहाएज्जा ।। सू० २५॥ छाया -यो भिक्षुश्च गणादवक्रम्य एकाकिविहारप्रतिमामुपसंपद्य खलु विहरेत् स चेच्छेत् द्वितीयमपि तमेवगणमुपसंपद्य खलु विहर्त्तुम् अस्ति चात्र शेषं पुनरालोचयेत् पुनः प्रतिक्रामयेत् पुनश्छेद् परिहारस्य उपस्थापयेत् ॥ ० २५ ॥ भाष्यम् - " - "जे भिक्खू" इति 'जे भिक्खू' यः कश्चिद् भिक्षुः जघन्यतो दशपूर्वघरः उत्कृष्टतश्चतुर्दश पूर्वधारी, तथा श्रद्धा १, सत्यं २, मेधा ३, बहुश्रुतत्वम् ४ शक्तिमत्त्वम् ५, अल्पाधिकरणत्वम् ६, धृतिमत्त्वम् ७, वीर्यसम्पन्नत्वं ८ चेति, इत्येतावदष्टगुणधारको मुनिर्वा 'गणाओ अवक्कम्म' गणात् स्वकीयगच्छात् अवक्रम्य विनिर्गत्य पृथग्भूत्वा 'एगल्लविहारपडिमं' एका किविहारप्रतिमाम् एका किविहारयोग्यां एकाकि भूत्वा विहरणरूप मभिग्रह - विंशेषम् 'उवसंपज्जित्ता गं' उपसपद्य स्वीकृत्य 'विहरेज्जा' विहरेत् 'से य' स चैका किविहारी 'इछेज्जा' स्वकीयं गणं स्मरन् इच्छेत्, किमिच्छेदित्याह - 'दोच्चंपि तमेव गणं उवसंपज्जित्ताणं विरहित्तए' द्वितीयमपि वारम् एकवारं पूर्वे प्रब्रज्याप्रत्तिपत्तिकाले अश्रितवान् इदानीं तु द्वितीयं वारम् अत एव कथितं द्वितीयमपि वार तमेव आत्मीयं पूर्वत्यक्तं गणमेव उपसंपद्य स्वीकृत्य पुनर्विहर्त्तुम् तदा किं कुर्यात् पूर्वगच्छस्थित आचार्यादिः ? तत्राह - 'अस्थि या इत्थ सेसे' अस्ति चात्र तस्मिन् मुनौ शेषम् अवशिष्टं चारित्रं भवेत् तदा 'पुणो आलोएज्जा' पुनरालोचयेत् माचार्यादिः पुनस्तमेकाकिविहारप्रतिमाजातमतीचारमालोचयेत् पापस्यालोचनां कारयेत्, तस्य स्वकीयं पापं प्रकटं कारयेदित्यर्थः । आलोचनानन्तरं 'पुणो पडिकमेज्जा' पुनः प्रतिक्रामयेत् पुनः पुनरकरणतया तस्मात् स्थानात् प्रत्यावर्त्तयेत् पुनरपि किमित्याह - 'पुगो छेयपरिहारस्स उवद्याएज्जा' पुनश्छेदपरिहारस्योपस्थापयेत्, छेदश्च परिहारश्चेति समाहारद्वन्द्वे छेदपरिहारं तस्य, तत्र छेदस्य दीक्षाछेदं कृत्वा तस्य परिहारस्य परिहारतपसो वा यथायोग्यं करणाय पुनरुपस्थापयेत् दीक्षाछेदं परिहारतपो वा आरोपयेदितिभावः । पूर्वं यदुक्तम्- 'अस्थि या इत्थ सेसे' इति किञ्चिदवशिष्टे चारित्रभागेऽयं विधिरुक्तः, यदि सर्वमपि चारित्र नष्टं जात नावशिष्ट किश्चित्तदा सर्वं पूर्वपर्यायं छित्त्वा पुनर्नुतने चारित्रे तमुपस्थापयेदिति निष्कर्ष इति । अत्र कोऽपि शङ्कते - यद्यपि प्रतिमाप्रतिपन्नस्य चारित्रविराधनायाः संभवः, न तु चारित्रं सर्वमपगतं किन्तु शेषमवतिष्ठते, व्यवहारनयमतेन देशभङ्गेन सर्वभङ्गाभावात्, ततश्चारित्रस्य शेषे सति 'पुनरालोचयेत् पुनः प्रतिक्राम्येत्' इत्यत्र पुनः शब्दो न द्वितीयवारापेक्षः आलोचनाप्रतिक्रमणयोः पूर्वमकरणात्, एकवारं कृतं कार्यं द्वितीयवारं क्रियते तत्र पुनः शब्दः सापेक्षः, यथा च लोके बक्ति——कृतमिदमेकवारमिदानीं पुनः क्रियते' इति, अत्र तु प्रथममेवाऽऽलोचनां प्रथममेव च
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy