________________
व्यवहारसूत्रे
चतुर्थभङ्गमाह - 'पच्छा पडिसेवियं पच्छा आलोइयं पश्चात् प्रतिसेवितं पश्चादालोचितम् । तत्र-पश्चानुपूर्व्या प्रतिसेवितं गुरुलघुपर्यालोचनादिविरहितो भूत्वा तेन यथाकथञ्चन प्रतिसेवितम् पश्चात् पश्चाऽनुपूर्व्या आलोचितं प्रतिसेवनाऽनुक्रमेणैवालोचितम् अथवा स्मृत्वा स्मृत्वा यथाकथञ्चनाऽऽप्यालोचितमिति चतुर्थी भङ्गः ४ ।
ܕ
इह प्रथमचरमभङ्गौ अप्रतिकुञ्चने, द्वितीयतृतीयौ प्रतिकुञ्चनायामिति । यदिह प्रतिञ्चनाऽप्रतिकुञ्चनाभ्यां चतुर्भङ्गी कृता, तामेवाह - 'अपलिउंचिए' इत्यादि । 'अपलिउंचिए अपलिउंचिय' अप्रतिकुञ्चितेऽप्रतिकुञ्चितम् । यदा खलु अपराधान् प्राप्तः आलोचनाभिमुखः तदैवं संकल्पं कृतवान् कश्चित् य - यथा सर्वेऽपि अपराधाः मया आलोचयितव्याः, एवं पूर्वसंकल्पकाले - ऽप्रतिकुञ्चिते आलोचनावेलायामप्रति कुञ्चितमेवालोचयतीति प्रथमो भङ्गः १ ।
3
द्वितीयभङ्गमाह - 'अपलिउंचिए पलिउंचियं' अप्रतिकुञ्चिते प्रतिकुञ्चितं पूर्वं संकल्पकाळेऽप्रतिकुञ्चितम् आलोचनासमये तु प्रतिकुञ्चितं सकपटमालोचनं कृतमिति द्वितीयो भङ्गः । तृतीयभङ्गमाह - 'पलिउंचिए अपलिउंचिय' । प्रतिकुञ्चितेऽप्रतिकुञ्चितम् - पूर्वं संकल्पकाले प्रतिकुञ्चिते आलोचनाकाले भावपरावर्त्तनात् सर्वमपि अप्रतिकुञ्चितम् आलोचयतीति तृतीयो भङ्गः ३ ।
चतुर्थभङ्गमाह – 'पलिउंचिए पलिउंचियं प्रतिकुञ्चिते प्रतिकुञ्चितं यथा पूर्वं सकल्पकाले केनापि प्रतिकुञ्चितं सकपटं मया सर्वेऽपराधा नालोचनीयाः, तत एवं संकल्पकाले प्रतिकुञ्चिते, आलोचनाकालेऽपि प्रतिकुञ्चितमेवालोचयतीति चतुर्थो भङ्गः ४ ।
तथा च- निरवशेषं परिहारस्थानमालोचयतः सर्वमेतत् यदापन्नमपराधजातं यदि वा कथमपि प्रतिकुञ्चना कृता स्यात् ततः प्रतिकुञ्चनानिष्पन्नं यच्चाचार्येण सहालोचनासमये तुल्यासनोच्चासननिष्पन्न या चालोचनाकाले असमाचारी तन्निष्पन्नं च । 'पलिउंचिए पलिउंचियं आलोएमाणस्स' प्रतिकुश्चिते प्रतिकुञ्चितमालोचयतः - 'सव्वमेयं' सर्वमेतत् उपरोक्तमपराधजातम् 'सकयं' स्वकृतं स्वयमात्मनाऽपराधकारिणा कृतमुत्पादितमिति स्वकृतमपराधजातम् 'साहणिय' संहत्य सर्वमेकत्र मेलयित्वा यदि सञ्चयितं प्रायश्चित्तस्थानमापन्नः, ततः षाण्मासिकं प्रायश्चित्तं दद्यात् । यत्पुनः पाण्मासिकातिरिक्तमप्रराघनात तत्सर्वमपि परित्यजेत् । अथ पुनर्यदि मासादिकं ग्रायश्चित्तस्थानमापन्नः ततस्तावन्मात्रं मासादिकमेव प्रायश्चित्तं दातव्यं नाधिकमिति । 'जे एवाए पत्रणाए पट्टविए' यः साधुः साध्वी वा एतया अनन्तरपूर्वकथितया षाण्मासिक्या मासिक्यादिकया वा प्रस्थापनया प्राकृकृतस्याऽपराधजातस्य विषये या स्थापना प्रायश्चित्तदान