________________
भाज्यम् उ० १ सू० १८ प्रतिकुञ्चनाप्रतिकुश्वनायां प्रायश्चित्तदानविधिः २३ पंचमासियं वा' सातिरेकपाञ्चमासिकं वा 'एएसि परिहारहाणाणं' एतेषां चातुर्मासिकादिपरिहारस्थानानाम् 'अन्नयरं परिहारहाणं पडिसे वित्ता' अन्यतरत् एतेषु मध्ये यत् किमप्येकं परिहारस्थानं प्रतिसेव्य 'आलोएज्जा' आलोचयेत् स्वकीयमपराघजातमाचार्यसमीपे प्रकाशयेत् । तत्र 'पलिउंचिय आलोएमाणस्स' प्रतिकुच्य सकपटमालोचयतः 'ठवणिज्ज ठावइत्ता' स्थापनीयं स्थापयित्वा यः साधु साध्वी वा परिहारतपःपायश्चित्तस्थान प्राप्तः तस्य परिहारतपोदानार्थ सकलसाधुसाध्वीजनपरिज्ञानाय सकलगच्छसमक्षं निरुपसर्गप्रत्ययं पूर्व कायोत्सर्गः क्रियते, कायोत्सर्गकरणानन्तरं गुरुइँते–अहं ते कल्पस्थितः, अयं च साधुरनुपारिहारिकः । ततः स्थापनीयं स्थापयित्वेति यत्नेन सहाचरणीयम् । स्थाप्यते इति स्थापनीयं वक्ष्यमाणमालापनपरिवर्तनादि, तत् सकलगच्छसमक्ष स्थापयित्वोपवेश्य कल्पस्थितेनाऽनुपारिहारिकेण च यथायोगं अनुशिष्टयपालम्भरूपम् 'करणिज्जं वेयावडियं' करणीयं वैयावृत्यं तस्याऽऽहारादिना वैयावृत्यं करणीयम् । 'ठाविएवि पडिसेवित्ता' स्थापितेऽपि प्रतिसेव्य ताभ्यामाचार्य-वैयावृत्यकर्तृभ्यां क्रियमाणेऽपि वैयावृत्ये स्थापितेऽप्यालापनादौ कदाचित् किमपि दोषं प्रतिसेव्य गुरोः समक्षमुपस्थितो भवेत् , यथा-भगवन् ! अहम् अमुकं प्रायश्चित्तस्थानमापन्नः, ततः ‘सेवि कसिणे तत्येव आरोहियव्वे सिया' तदपि कृत्स्नं तत्रैवाऽऽरोपयितव्यं स्यात्, तदपि कृत्स्नं परिहारतपसि आरोग्यमाणे आरोपणीयं स्यात् । तत्र तस्य प्रतिसेवितस्याऽऽचार्यसमक्षमालोचनायां चतुर्भङ्गी भवति, तामेवाह-'पुव्वं' इत्यादि । 'पुव्वं पडिसेवियं पुव्वं आलोइयं' पूर्व प्रतिसेवितं पूर्वमालोचितम् , तत्र पूर्वमित्यस्य पूर्वाऽऽनुा इत्यर्थः । ततोऽयमर्थः,-गुरुलघुपर्यालोचनया पूर्वाऽऽनुपर्ध्या लघुपञ्चकादिक्रमेण प्रतिसेवितं, तत् पूर्व पूर्वाऽऽनुपर्ध्या प्रतिसेवनाऽनुक्रमेणाऽऽलोचितमिति प्रथमो भगः १ ।
द्वितीयभङ्गमाह-'पुव्वं पडिसेवियं पच्छा आलोइय' पूर्व प्रतिसेवितं पश्चादालोचितं, पूर्व गुरुलघुपर्यालोचनया पूर्वाऽऽनुपा मासलघुकादि प्रतिसेवितं, तदनन्तर च तथाविधाऽल्पप्रयोजनोत्पत्तौ गुरुलघुपर्यालोचनयैव लघुपञ्चकादि प्रतिसेवितम् । मालोचनाकाले तु पश्चात् पश्चाऽऽनुपूर्व्या आलोचितं, पूर्व लघुपश्चकाद्यालोचितं पश्चात् लघुमासादिकमालोचितमिति द्वितीयो भङ्गः २।
तृतीयभङ्गमाह-'पच्छा पडिसेवियं पुव्वं आलोइयं' पश्चात् प्रतिसेवितं पूर्वमालोचितं पश्चादानुपूर्ध्या प्रतिसेवितं, गुरुलघुपर्यालोचनामन्तरेण पूर्वं गुरुमासादिकं प्रतिसेवितम् पश्चात् लघुपञ्चकादि प्रतिसेवितम् । आलोचनावेलायां मानुपूर्व्या आलोचितं पूर्व लषपञ्चकाघालोचितं पश्चात् गुरुमासादीति तृतीयो भङ्गः ३।