________________
पूर्णिमान्यापधुरी उ० ६ सू० २०
षड्विधकल्पस्थितिवर्णनम् १५५ इति षष्ठो भेदः६। यतः सव्वत्थ भगवया अणियाणया पसत्था सर्वत्र भगवता अनिदानता प्रशस्ता प्रशंसितेति ॥ सू० १९ ॥
सम्प्रति कल्पस्थितेर्भेदान् दर्शयितुमाह-'छविहा' इत्यादि ।
सूत्रम्-छव्विहा कप्पट्टिई पण्णत्ता तं जहा-सामाइयसंजयकप्पट्टिई १, छेओवहावणियसंजयकप्पट्टिई २, णिव्विसमाणकप्पट्टिई ३, णिविट्ठकाइयकप्पहिई ४, जिणकप्पट्टिई ५, थेरकप्पट्टिई ६ । त्ति बेमि ॥ सू० २० ॥
कप्पस्स छठो उद्देसो समत्तो - छाया - पड्विधा कल्पस्थितिः प्रक्षप्ता तद्यथा-सामायिकसंयतकल्पस्थितिः १, छेदोपस्थापनीयसंयतकल्पस्थितिः २, निविशमानकल्पस्थितिः ३, निविष्टकायिककल्पस्थितिः ४, जिनकल्पस्थितिः ५, स्थविरकल्पस्थितिः ६। इति ब्रवीमि । सु० २०॥
कल्पस्य षष्ठ उद्देशकः समाप्तः ॥६॥ चूर्णी-'छबिहा' इति । षड्विधा षट्प्रकारा कप्पट्टिई पण्णत्ता कल्पस्थितिः प्रज्ञप्ता कथिता, तत्र कल्पे संयताचारे स्थितिरवस्थानमिति कल्पस्थितिः, अथवा कल्पस्य साधुसामाचारीलक्षणस्य स्थितिमर्यादा इति कल्पस्थितिः, सा षड्विधा प्रज्ञप्ता-निरूपिता । तानेव षड्भेदान् दर्शयितुमाह-तं जहा इत्यादि, तं जहा तद्यथा-सामाइयसंजयकप्पट्टिई सामायिकसंयतकल्पस्थितिः, तत्र समो रागद्वेषरहितभावः-ज्ञानदर्शनचारित्रलक्षणभावः, तस्याऽऽयः प्राप्तिः, अथवा समय एव सामायिकं सर्वसावद्यकर्मणां विरतिलक्षणम्, तप्रधानाः संयताः साधवः, तादृशसाधूनां स्थितिः सा सामायिकसंयतकल्पस्थितिः प्रथमा १, छेदोवटावणियसंजयकप्पट्टिई छेदोपस्थापनीयसंयतकल्पस्थितिः, तत्र छेदनम्-पूर्वपर्यायोच्छेदनम्, उपस्थापनीयमारोपणीयं यत् तत् छेदोपस्थापनीयम् व्यक्तितो महाव्रतेषु आरोपणमित्यर्थः, ततश्च छेदोपस्थापनीयप्रधाना ये संयताः ते छेदोपस्थापनोयसंयताः साधवस्तेषां या कल्पस्थितिः सा छेदोपस्थापनीयसंयतकल्पस्थितिर्द्वितीया २, निविसमाणकप्पदिई निर्विशमानकल्पस्थितिः, तत्र निर्विशमानाः परिहारविशुद्धिकल्पं वहमानाः, तेषां कल्पस्तस्य स्थितिनिर्विशमानकल्पस्थितिस्तृतीयो भेदः ३, निन्विट्ठकायइकप्पहिई निर्विष्टकायिककल्पस्थितिः, तत्र निविष्टकायिको नाम येन परिहारविशुद्धिकं नाम तपो व्यूढम् , निर्विष्ट आसेवितः विवक्षितचारित्रस्वरूपः कायो-देहो यैस्ते निर्विष्टकायिका इति व्युत्पत्तेः, तेषां निविष्टकायिकानां कल्पस्थितिरिति निर्विष्टकायिककल्पस्थितिश्चतुर्थी ४ । जिणकप्पहिई जिनकल्पस्थितिः, तत्र जिनाः गच्छविनिर्गताः साधुविशेषास्तेषा जिनानां कल्पस्थितिरिति जिनकल्पस्थितिः पञ्चमी ५, थेरकप्पट्टिई स्थविरकल्पस्थितिः, तत्र स्थविरा आचार्योपाध्यायादयः गच्छसापेक्षाः साधुवि